________________
द्वितीयो भागः [परि०१०-का. १०१]
६६१ (भा०) कुतस्तत्सिद्धिरिति
चेन्निर्लोठितमेतत् सर्वज्ञसिद्धिप्रस्तावे, न पुनरिहोच्यते । केवलज्ञानदर्शनयोर्युगपद्भावः कुतः सिद्ध इति चेत्
(भा०) सामान्यविशेषविषययोर्विगतावरणयोरयुगपत्प्रतिभासायोगात् प्रतिबन्धकान्तराभावात् ।
सामान्यप्रतिभासो हि दर्शनं विशेषप्रतिभासो ज्ञानम् । तत्प्रतिबन्धकं ज्ञानावरणं दर्शनावरणं च यदुदयादस्मदादेः केवलज्ञानदर्शनानाविर्भावः । तयोश्च युगपदात्मविशुद्धिप्रकर्षविशेषात् परिक्षयसिद्धेः कथमिवायुगपत्प्रतिभासनं सामान्यविशेषयोः स्यात् ? प्रक्षीणाशेषमोहान्तरायस्य प्रतिबन्धान्तरं च कथमिव सम्भाव्येत, येन युगपत्तद्वितयं न स्यात् ? अस्तु नाम केवलं तत्त्वज्ञानं युगपत्सर्वभासनं, मतिश्रुतावधिमनःपर्ययज्ञानं तु कथमित्युच्यते ।
(भा०) शेषं सर्वं क्रमवृत्ति, प्रकारान्तरासम्भवात् । तेन क्रमभावि च यन्मत्यादितत्त्वज्ञानं तदपि प्रमाणमिति व्याख्यातं भवति,
- अष्टसहस्रीतात्पर्यविवरणम् प्रवृत्तेः, क्षणद्वयोत्पन्नज्ञानदर्शनोपयोगानुवृत्त्यभ्युपगमस्य च विरोधेनैव निरस्तत्वात्, उत्पत्तौ विरोधो न तु स्थितावित्यस्य च वक्तुमशक्यत्वात् । वस्तुतः केवलदर्शने केवलज्ञानोपयोगसहकृतदर्शनावरणक्षयस्य केवलज्ञाने च केवलज्ञानान्योपयोगसहकृतकेवलज्ञानावरणक्षयस्य हेतुत्वान्नाशे च ऋर्जुसूत्रनयावलम्बनेन प्रतियोगिन एव तथात्वात् केवलिनः क्षणिकोपयोगद्वयधारायां न काप्यनुपपत्तिः । व्यवहारनयावलम्बनेन नाशहेत्वनभ्युपगमेऽपि क्रमिकाद्योपयोगद्वयमुक्तहेतुसमाजाद्दुर्निवारमेव, अन्यथा समूहालम्बनैकोपयोगापत्तेरिति भावनीयम्, स्फुटं च सूत्रे तत्र तत्र केवलिनः सिद्धस्य चैकदैकतरोपयोग एव प्रतिपादित इति किं विपरीतयुक्तिभिरिति ? । अत्र च केवलिनो युगपदुपयोगद्वयमिति श्रीसिद्धसेनाचार्याणां मतं, क्रमेणेति पूज्यश्रीजिनभद्रगणिक्षमाश्रमणानां? वृत्तिविशेषात् केवलज्ञान एव दर्शनत्वं परिभाष्यते, न तु मतिज्ञानादियदर्शनोपयोगोऽपि ज्ञानात् पृथक्कश्चित् सम्भवति केवलिनः । तदुक्तं
चक्षुर्वद्विषयाख्यातिरवधिज्ञानकेवले । शेषवृत्तिविशेषात्तु, ते मते ज्ञानदर्शने ॥१॥ इति, [द्वात्रिंशिका १०-३०]