________________
६६२
अष्टसहस्त्रीतात्पर्यविवरणम् मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानं । तत्प्रमाणे इति सूत्रकारवचनात् [तत्त्वा० १.९१०] । ननु च मत्यादिज्ञानचतुष्टयमपि युगपदिष्यते, तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः इति सूत्रसद्भावादिति [तत्त्वा० १.३०] न शङ्कनीयं, मत्यादिज्ञानानामनुपयुक्तानामेव यौगपद्यवचनात् सह द्वौ न स्तः उपयोगौ इत्यार्षवचनात् [ ] । छद्मस्थज्ञानदर्शनोपयोगापेक्षया तद्वचनमिति चेत्, नैवं विशेषानभिधानात् । सामान्यचोदनाश्च विशेषेष्ववतिष्ठन्ते इति न्यायात् तद्विशेषगतिरिति चेत्, न, अन्यथापि विशेषगतिसम्भवात्, तन्नैवेति, प्रमाणाभावात् । 'क्वचिदात्मनि मत्यादिज्ञानानि सोपयोगानि युगपत्सम्भवन्ति सकृत्सन्निहितस्वविषयत्वात् दीर्घशष्कुलीभक्षणादौ चक्षुरादिज्ञानपञ्चकवदित्यनुमानादिष्टविशेषगतिरस्तु । न चेदमुदाहरणं साध्यविकलं चक्षुरादिज्ञानानां क्रमवृत्तौ परस्परव्यवधानाद्विच्छेदोपलक्षणप्रसङ्गात्, प्रसिद्धक्रमभाविरूपादिज्ञानवदिति' न मन्तव्यं ।
(भा०) चक्षुरादिज्ञानपञ्चकस्याऽपि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणं, क्षणक्षयवत्
ताथागतस्य स्यात् । तेषां
(भा०) यौगपद्ये हि सन्तानभेदात् परस्परपरामर्शाभावः सन्तानान्तरवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तस्मात् केवलज्ञानस्य एव एकोपयोगः केवलिन इति निष्कृष्टं सिद्धसेनाचार्याणामेव मतं, मल्लवादिप्रभुतीनां वा, एतच्च त्रयमपि ऋजुसूत्र-व्यवहार-सङ्ग्रहनयभेदादविरोधेन व्यवस्थापितमस्माभिर्ज्ञानबिन्दौर महता प्रबन्धेनेति व्युत्पत्त्यर्थिनाऽत्रार्थे स एव ग्रन्थोऽनुसन्धेयः । ये तु बालिशा नयभेदेन प्रवृत्तेऽप्याचार्यमतभेदे शङ्काव्याकुलितचेतसः शासनमेव निन्दन्ति, तेऽभव्या दूरभव्या वा, अचारित्रिण एव चारित्रप्रतिपत्तिश्चारित्रिण एव वेत्यादिनयभेदेनाप्येवं जातशासनसंशयसन्निपातस्य भगवद्भिषग्वरेणाप्यप्रतीकार्यत्वापत्तेरिति दिग् । तद्विशेषगतिः= उपयोगपदस्य छद्मस्थज्ञानदर्शनोपयोगपरता, अन्यथाऽपि छद्मस्थोपयोगमात्रविषयत्वेनापि, क्वचिदित्यादिर्न मन्तव्यमित्यन्तं पूर्वपक्षग्रन्थः । चक्षुरादीत्यादि भाष्यमुत्तरग्रन्थः । सन्तानभेदाद्रूपज्ञानस्य ज्ञानसन्तानादिभेदात्, परस्परपरामर्शाभावः, य एवाहमद्राक्षं स एव स्पृशामीत्यादिप्रत्यभिज्ञाभावः, स्यादिति शेषः ।