________________
द्वितीयो भागः [परि०१०-का. १०१]
६६३ ____ यौगपद्येऽपि सन्तानभेदाभावेऽक्षमनोऽध्यक्षयोरपि यौगपद्यमस्तु विशेषाभावात् ।
(भा०) मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानन्तरप्रत्ययोद्भवेन कश्चिद्विशेषः क्रमवृत्तौ ।
चक्षुरादिज्ञानवद् । ( भा०) व्यवधानप्रतिभासविकल्पप्रतिपत्तेरसम्भवात् ।
न च चक्षुरादिज्ञानपञ्चकात्सहभाविनः क्रमभुवां तदनन्तरजन्मनां मानसप्रत्यक्षाणां व्यवधानेन प्रतिभासभेदप्रतिपत्तिरस्ति । तेषां लघुवृत्तेः क्रमभावित्वेऽपि न व्यवधानेन प्रतिभासविकल्पानां प्रतिपत्तिरिति चेत्, तत एवं चक्षुरादिज्ञानानामपि विच्छेदोपलक्षणं मा भूत्, क्रमभावेऽपि विशेषाभावात् ।
(भा०) यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषान्तरवत् ।
जैनानामपि क्रमभावश्चक्षुरादिवेदनानामुपपन्न एव । तद्वन्मत्यादिज्ञानानामपि सोपयोगानां क्रमभावो निरुपयोगानां तु यौगपद्यमविरुद्धं ।
(भा०) विषयस्यानेकान्तात्मकत्वात् । ततः सोपयोगं (भा०) मतिज्ञानादि क्रमभावि (भा०) स्याद्वादनयलक्षितं प्रतिपत्तव्यं ।
- अष्टसहस्त्रीतात्पर्यविवरणम् अक्षमनोऽध्यक्षयोः= चक्षुरादिज्ञानमानसज्ञानयोः, विषयस्य=ग्राह्यस्य । अनेकान्तात्मकत्वादिति क्रमयुगपद्भावेनेति शेषः । स्याद्वादनयलक्षितं प्रतिपत्तव्यमिति तथा च संस्कृतपदमुपलक्षितपरमित्यर्थः । तयोः=नयस्याद्वादयोः । वस्तुतः संस्कृतपदमाहितातिशयार्थमेव । तथा च प्रतिनियतैकार्यावधारणात्मकं यन्मतिज्ञानादि तन्नयसंस्कृतं, यच्चानन्तधर्मात्मकत्वेन विषयपरिच्छेदि तत्स्याद्वादसंस्कृतं, आद्यं लौकिकं प्रमाणं, परमलौकिकं, नयस्याद्वादार्थप्रतिसन्धानजनितसंस्कारोपनयादेव तयोविषयताविशेषरूपाति