________________
६६४
अष्टसहस्त्रीतात्पर्यविवरणम् तस्य नयोपलक्षितत्वात् । (भा० ) केवलज्ञानवत् स्याद्वादोपलक्षितत्वाच्च ।
कुत एतदिति चेद् विकलसकलविषयत्वात् तयोः । तत्त्वज्ञानं वा स्याद्वादनयसंस्कृतं प्रतिपत्तव्यं क्रमाक्रमभावित्वे कथम् ? तत्त्वज्ञानं स्यादक्रम, सकलविषयत्वात् । स्यात् क्रमभावि, विकलविषयत्वात् । स्यादुभयं, तदुभयविषयत्वात् । स्यादवक्तव्यं, युगपद्वक्तुमशक्तेः इत्यादि, सप्तभङ्ग्याः प्रमाणनयवशादुपपत्तेः । अथवा प्रतिपर्यायं स्याद्वादनयसंस्कृतं प्रतिपत्तव्यं, स्यात्प्रमाणं स्वार्थप्रमिति प्रति साधकतमत्वात्, स्यादप्रमाणं प्रमाणान्तरेण प्रमेयत्वात् स्वतो वा । अथवा स्यात्सत्, स्वरूपादिचतुष्टयात्, स्यादसत् पररूपादिचतुष्टयात् इत्यादि योजनीयम् ॥१०१॥
अथ प्रमाणफलविप्रतिपत्तिनिवृत्त्यर्थमाहुः-- उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥१०२॥
कारिकापाठापेक्षया युगपत्सर्वभासनं केवलमाद्यं, तस्य व्यवहितं फलमुपेक्षा । कुतः ? इति चेद् उच्यते ।
(भा०) सिद्धप्रयोजनत्वात्केवलिनां सर्वत्रोपेक्षा ।
हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतत्कारणस्योपात्तत्वात् सिद्धप्रयोजनत्वं नासिद्धं भगवताम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
शयाधानोपपत्तेरिति युक्तमाभाति । तत्त्वज्ञानं वेति तथा च धर्मितावच्छेदकसामानाधिकरण्येनात्र क्रमाक्रमविषयस्याद्वादनयप्रवृत्तिर्युक्तैवेति भावः । स्यादक्रममिति केवलज्ञानापेक्षया, स्यात् क्रमभावीति मत्यादिज्ञानापेक्षया ॥१०१।।
सर्वत्रोपेक्षा स्वविषयमात्रे जिहासोपादित्सारहितः सिद्धयोगपरिमाण इति यावत् ।