________________
द्वितीयो भाग: [ परि० १० - का० १०२]
[बौद्धो भगवति करुणाबुद्धि मन्यते किन्तु जैनाचार्याः करुणाया मोहस्य पर्यायं कथयित्वा निषेधयन्ति तथा केवलिनि उपेक्षाफलं कथमिति स्पष्टयन्ति ]
६६५
ननु
( भा० ) करुणावतः परदुःखजिहासोः कथमुपेक्षा ? तदभावे कथं चाप्तिः ? इति चेत्, न,
तेषां मोहविशेषात्मिकायाः करुणायाः सम्भवाभावात् ।
(भा०) स्वदुःखनिवर्तनवदकरुणयापि वृत्तेरन्यदुःखनिराचिकीर्षायाम् । नन्वस्मदादिवद्
(भा० ) दयालोरेवात्मदुःखनिवर्तनं
युक्तम् । तथा हि-यो यः स्वात्मनि दुःखं निवर्तयति स स स्वात्मनि करुणावान्, यथास्मदादिः । तथा च योगी स्वात्मनि संसारदुःखं निवर्तयतीति युक्तिः । न चात्र हेतुर्विरुद्धोऽनैकान्तिको वा, विपक्षे सर्वथाप्यभावात् बाधकप्रमाणसामर्थ्यात्, स्वसाध्याविनाभावसिद्धेः । तथा हि-यः स्वात्मन्यकरुणावान्न स स्वदुःखं निवर्तयति, यथा द्वेषादेर्विषभक्षक इति साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चयात् । भयलोभादिनात्मदुःखनिवर्तकैर्व्यभिचारी हेतुरिति चेत्, न तेषामपि करुणोत्पत्तेः । न ह्यात्मन्यकरुणावतः परतो भयं लोभो मानो वा सम्भवति, तस्यात्मकरुणाप्रयुक्तत्वात् । भयादिहेतुका वा कस्यचिदात्मनि करुणोत्पद्यते । सोत्पन्ना सती स्वदुःखं निवर्तयति इति परंपरया करुणावानेवात्मदुःखमनशनादिनिमित्तं निवर्तयति इति साक्षात्करुणयात्मदुःखनिवर्तने प्रवर्तते ततो न व्यभिचारः । एतेनादृष्टविशेषवशादात्मनि दुःखनिवर्तनपरैर्व्यभिचारचोदना निरस्ता, ततः करुणोत्पत्तेरेव तन्निवर्तनात् । तन्नाकरुणस्यात्मदुःखनिवर्तनं दृष्टम् ।
( भा० ) अतोऽयमसमाधिरिति चेत्, न,
स्वभावतो स्वपरदुःखनिवर्तननिबन्धनत्वोपपत्तेः प्रदीपवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मोहविशेषात्मिकाया इति, मोहासुखसंवेगान्यहितयुतत्वेन चतुर्विधाया अपि करुणाया