________________
६६६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) न वै प्रदीपः कृपालुतयात्मानं परं वा तमसो दुःखहेतोः (भा०) निवर्तयतीति । किं तर्हि ? तथास्वभावात् ।
(भा०) कल्पयित्वापि कृपालुतां तत्करणस्वभावसामर्थ्य मृग्यम् । एवं हि परम्परापरिश्रमं परिहरेत् ।
ततो निःशेषान्तरायक्षयादभयदानं स्वरूपमेवात्मनः प्रक्षीणावरणस्य परमा दया । सैव च मोहाभावाद्रागद्वेषयोरप्रणिधानादुपेक्षा । तीर्थकरत्वनामोदयात्तु हितोपदेशप्रवर्तनात् परदुःखनिराकरणसिद्धिः इति न बुद्धवत्करुणयास्य प्रवृत्तिभगवतो, येनोपेक्षा केवलस्य फलं न स्यात् ।
[अज्ञाननिवृत्तिर्ज्ञानस्य फलमिति स्पष्टयन्ति जैनाचार्याः ।] अव्यवहितं तु फलमाद्यस्याज्ञाननिवृत्तिरेव, स्वविषये मत्यादिवत् । तथा हि
( भा० ) मत्यादेः साक्षात् फलं स्वार्थव्यामोहविच्छेदस्तदभावे दर्शनस्यापि सन्निकर्षाविशेषात् क्षणपरिणामोपलम्भवदविसंवादकत्वासम्भवात् ।
तदनेन प्रमाणाद्भिन्नमेव फलमिति व्युदस्तम् । तथा (भा०) परम्परया हानोपादानसंवित्तिः ।
- अष्टसहस्रीतात्पर्यविवरणम् मोहविलासरूपत्वान्निष्पन्नयोगस्य च मैत्र्यादिवर्जितसद्बोधमात्रचित्तश्रुतेरिति भावः । सैव चेति उपेक्षा वा परमा दया वाऽभयदानं वा सिद्धयोगो वेत्यनर्थान्तरं, तत्परिपाकश्चाशैलेश्यन्त्यक्षणं केवलज्ञानादित्युपेक्षायास्तत्फलत्वं, व्यवहितत्वं च तस्याः शैलेश्यन्त्यक्षणे परिपाकादिति बोध्यम् । अव्यवहितं त्विति ज्ञानाज्ञानाध्वंसयोः सहभावेऽप्यभेदे हेतुफलभावः प्रदीपप्रकाशयोरिवेति द्रष्टव्यम् । भिन्नफलापेक्षया तु न किञ्चिदपि केवलादित्येन निष्फलत्वमेवोच्यते, प्रमाऽयोगव्यवच्छेदाभिप्रायेण च परेषामीश्वरज्ञान इव न प्रमाणलक्षणायोग इति युक्तं पश्यामः । मत्यादेभिन्नाभिन्नं फलमुपदर्शयितुमाह भाष्यकृत्मत्यादेरित्यादिना । परम्परया हानोपादानसंवित्तिरिति व्यवधानेन जिहासाजनिकोपादि