________________
६६७
द्वितीयो भागः [परि. १०-का० १०२]
फलमुपेक्षा वा मत्यादेः । एतेनाभिन्नमेव प्रमाणात्फलमिति निरस्तम् । [करणक्रिययोः कथञ्चित् एकत्वं कथञ्चित् नानात्वं चेति जैनाचार्याः स्पष्टयन्ति ।]
(भा० ) तथा हि करणस्य क्रियायाश्च कथञ्चिदेकत्वं प्रदीपतमोविगमवत्, नानात्वं च परश्वादिवत् ।
ननु च 'यथा देवदत्तः काष्ठं परशुना छिनत्तीति करणस्य क्रियायाश्च नानात्वं सिद्धं, छिदेः काष्ठस्थत्वात्परशोर्देवदत्तस्थत्वात्, तथा प्रदीपस्तमो नाशयत्युद्द्योतेनेत्यत्रापि करणस्योद्योतस्य क्रियायाश्च तमोविनाशात्मिकाया नानात्वमेव प्रतीयते । तद्वत्करणस्य प्रमाणस्य क्रियायाश्च फलज्ञानरूपाया नानात्वेनैव भवितव्यं, तदनानात्वे दृष्टान्ताभावात्' इति केचित् तेऽपि न प्रतीत्यनुसारिणः प्रदीपः स्वात्मनात्मानं प्रकाशयतीति प्रतीतेः, प्रदीपात्मनः कर्तुरनन्यस्य कथञ्चित्करणस्य, प्रकाशनक्रियायाश्च प्रदीपात्मिकायाः कथञ्चिदभेदसिद्धेः । तद्वत्प्रमाणफलयोः कथञ्चिदव्यवहितत्वसिद्धिरुदाहरणसद्भावात् । सर्वथा तादात्म्ये तु प्रमाणफलयोन व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिद्ध्यति । दर्शनस्यासारूप्यव्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत्, न, स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदानुपपत्तेः । (भा०) तस्माद् ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्थायामपि
– अष्टसहस्त्रीतात्पर्यविवरणम् - त्साजनिका वा बुद्धिर्मत्यादेः फलमित्यर्थः । तद्द्वारा च हेयोपा(देय)हानोपादानात्मिका विरतिरपि फलं सङ्गच्छते । तदुवाच वाचकचक्रवर्ती ज्ञानस्य फलं विरतिरिति [ ] उक्तद्वारद्वारिभावं सवणे नाणे य विन्नाणे [ ] इत्यादि पारमर्षसङ्ग्रहगाथयाऽन्वगच्छामः । अत एवोपेक्षामपि बहिष्प्रवृत्तिनिवृत्तिविषयान्तरसञ्चारशून्यनिभृतज्ञानरूपां मत्यादिफलत्वे नोपेक्षा वेत्यनेन समुच्चिनोति स्म वृत्तिकारः । विषयप्रतिभासात्मपरिणामवत्तत्त्वसंवेदनानां यथोत्तरशुद्धत्वात्तृतीयस्य च विरतिक्रोडीकृत्वात् स्मृत्यजनकज्ञानरूपोपेक्षायास्तु न कथमपि मत्यादिप्रमाणफलत्वम्, अवग्रहादिधारणापर्यन्तत्वान्मत्युपयोगस्येति विभावनीयं सुधीभिः । अभेद एव प्रमाणफलभाव इति बौद्धैकान्तं निरस्यति-सर्वथा तादात्म्ये त्विति । न हीति, अस्य दर्शनस्य, सारूप्यं =स्वलक्षणविषयत्वेन सादृश्यं, प्रमाणं =प्रामाण्यभागः,