________________
६६८
अष्टसहस्त्रीतात्पर्यविवरणम्
व्यामोहविच्छेदाभावे
(भा०) विसंवादानिराकरणे तदज्ञस्येव विषयदृष्टिः प्रमाणत्वं न प्रतिपत्तुमर्हति । तावतैव प्रमाणत्वे क्षणिकत्वाद्यनुमानमधिगतार्थाधिगमलक्षणत्वान्न वै प्रमाणम् ।
इति निरूपितप्रायम् ॥१०२॥
ननु च स्याद्वादनयसंस्कृतं तत्त्वज्ञानमित्युक्तं तद्वत् फलमपीति स एव तावत् स्याच्छब्दोऽभिधीयतामित्याहुः
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥
[ अपरैः कल्पितं दशधा वाक्यस्य लक्षणं निराकृत्य निर्दोषवाक्यलक्षणं ब्रुवन्ति जैनाचार्याः ।]
किं पुनर्वाक्यं नामेत्युच्यतां तत्र विप्रतिपत्तेः । तदुक्तम्
आख्यातशब्दः सङ्घातो, जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृती ॥
पदमाद्यं पदं चान्त्यं पदं सापेक्षमित्यपि ।
वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवेदिनाम् ॥ इति [ वाक्यपदीय ]
अत्रोच्यते
(भा०) पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यं ।
अष्टसहस्त्रीतात्पर्यविवरणम्
अधिगतिः फलं फलभाग इति योजना, प्रमाणफलव्यवस्थायामपीति ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्था पूर्वं न हि सारूप्यमित्यादिना निराकृतैव, इदानीं तामङ्गीकृत्यापि दूषणान्तरं समुच्चीयत इत्यपिः सूचयति । तदज्ञस्येव = नीलाद्यविषयज्ञानस्येव, विषयदृष्टिः = विषयघटितप्रामाण्यदर्शी लौकिकपरीक्षकः ॥१०२॥
॥ वाक्यवादः ॥
पदानामिति, अत्र निरपेक्ष इति विशेषणं चैत्र: स्थाल्यां पचतीत्यादौ कर्मादि