________________
द्वितीयो भागः [ परि० १०-का. १०३]
६६९
अष्टसहस्त्रीतात्पर्यविवरणम्
पदन्यूनेऽतिव्याप्तिवारणाय, एवं सति स्फटिकाकृतिनिर्मलः प्रकाममित्यादावाकृत्यादिपदे नाधिकेऽप्यतिव्याप्तिवारणार्थं विशेषणान्तरदानध्रौव्ये तत्तदोषाभावकूटविशिष्टपदसमुदायत्वं वाक्यलक्षणं स्यात्तच्चाननुगमदोषादनिष्टम् । यदि च न्यूनाधिकादाववस्थितवाक्यार्थबोध: प्राथमकल्पिको निराबाध एव, न्यूनत्वादिदोषस्फूर्तिश्चौत्तरकालिकी वक्तृवैगुण्यमेवावेदयति, रसभङ्ग वा जनयतीति विभाव्य( ते) तदाकाङ्क्षायोग्यताऽऽसत्तिमतां पदानां समूहो वाक्यमित्येतावदेव लक्षणं सम्यगिति न्यायविदः ।
अथ का नामाकाङ्क्षा ? न तावदविनाभावः, घटमानयेत्यादावभावात्, घटः कर्मत्वमित्यादावपि व्यक्त्योस्तत्सत्त्वाच्च । नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, घटमित्युक्ते आनय नय वेति जिज्ञासोदयात् घटः कर्मत्वमित्यादौ तदभावादिति वाच्यम्, अजिज्ञासोरप्यन्वयबोधात्, जिज्ञासायाः स्वरूपसत्या एव हेतुत्वादाकाङ्क्षाभ्रमाच्छाब्दबोधानुपपत्तेश्च, उच्यते, अभिधानापर्यवसानमाकाङ्क्षा, अभिधानं पदं तस्यापर्यवसान मन्वयाननुभावकत्वं, तथा च यस्य पदस्य समभिव्याहृतयत्पदव्यतिरेकप्रयुक्तं यादृशान्वयाननुभावकत्वं तादृशान्वयाननुभवे समभिव्याहृततत्पदस्य तेन तादृशान्वयाननुभावकत्वं तयोराकाङ्क्षति फलितम् । अस्ति च द्वितीयादिपदस्य घटादिविशिष्टकर्मत्वाद्यन्वयाननुभावकत्वं घटादिपदव्यतिरेकप्रयुक्तं, न तु कर्मत्वादिपदस्य, घटादिपदसत्त्वेऽपि स्वत एव तस्याननुभावकत्वादिति घटमित्यादावाकाङ्क्षा, न तु घटः कर्मत्वमित्यादौ । यदि च मौनिश्लोके पदाभावान्नेदं युक्तमिति विभाव्यते, तदा यादृशपदज्ञानस्य यादृशपदसमभिव्याहारज्ञानाभावप्रयुक्तं यादृशान्वयाननुभावकत्वमित्यादि वाच्यम्, इयमाकाङ्क्षा घटमित्यादावुभयपदज्ञाननिष्ठा, लाक्षणिकस्याननुभावकत्वे गङ्गायामित्यादौ (लाक्षणिकस्याननुभावकत्वे ?) त्वेकपदज्ञाननिष्ठैव, वक्ष्यमाणप्रयुक्तत्वस्य लाक्षणिकेऽपि सम्भवे तूभयत्र तथैव । तत्प्रयुक्तत्वं च यद्यपि न तज्जन्यत्वम्, असम्भवात्, नापि तद्व्यापकत्वं, पदज्ञाननिष्ठाननुभावकत्वस्य पदान्तरसमभिव्याहारज्ञानाभावाव्यापकत्वात्, नापि तद्व्याप्यत्वं, योग्यताज्ञानाद्यभावेन तादृशान्वयानुपधायके घटमित्यादिवाक्ये व्यभिचारात्, तथापि यादृशपदसमभिव्याहारज्ञानातिरिक्तयादृशान्वयबोधकसकलसहकारिसमवहितयादृशपदज्ञाननिष्ठयादृशान्वयानुभवानुपधायकत्वं यादृशपदसमभिव्याहारज्ञानाभावव्याप्यं तादृशपदस्य तादृशपदसमभिव्याहारविशिष्टं तादृशपदज्ञानस्य तादृशान्वयानुभवाभाववैशिष्ट्यमाकाङ्क्षा । भवति च तादृशसहकारिसमवहितकर्मत्वोपस्थापकविभक्तिज्ञाननिष्ठं कर्मत्वोद्देश्यकघटान्वय