________________
६७०
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
बोधाभाववैशिष्ट्यं घटोपस्थापकपदसमभिव्याहारज्ञानाभावव्याप्यं न त कर्मत्वोपस्थापक नामपदज्ञाननिष्ठं सत्यपि घटोपस्थापकपदसमभिव्याहारज्ञाने तादृशसकलसहकारिसमवहिते घट: कर्मत्वमित्यादिवाक्यगते कर्मत्वपदे तादृशान्वयबोधाभाववैशिष्ट्यसत्त्वेन व्यभिचारात । न च कर्मत्वोपस्थापकविभक्तिज्ञाननिष्ठतादृशबोधाभाववैशिष्ट्यमपि न तदभावव्याप्यं, सत्यपि योग्यतादिज्ञाने घटमित्यादितोऽपि विपरीतव्युत्पन्नीयबोधाभावादिति वाच्यम् । व्याकरणसंस्कृतपुरुषीयत्वेन निरुक्तान्वयबोधविशेषणात्, विपरीतव्युत्पन्नस्य तु निरुक्ताकाङ्क्षाभ्रमादेव शाब्दबोधः । अत एव निरुक्तव्याप्यत्वरूपप्रयुक्तत्वघटिताकाङ्क्षाया ज्ञानमेव कारणम्, इत्थं च सद्व्युत्पन्नस्य घटमित्यादित एव, विपरीतव्युत्पन्नस्य तु घटः कर्मत्वमित्यादित एव बोधः ।
यत्तु यत्पदं यत्पदेन सह यादृशान्वयानुभवजनकं तत्पदस्य तत्पदसमभिव्याहार आकाङ्क्षा, तज्ज्ञानं कारणं, प्रकृतान्वयबोधसमानाकारस्वजन्यान्वयबोधविरहरूपा तु सा स्वरूपसती कारणं, सद्व्युत्पन्नीयशाब्दबोधे घटादिनामबोधे घटादिनामपदसमभिव्याहृतविभक्तिज्ञानं, विपरीतव्युत्पन्नीयबोधे च तत्समभिव्याहृतकर्मत्वादिपदज्ञानं कारणमिति नातिप्रसङ्ग इति मञ्जरीकारादिमतं, तन्न, द्वयोरपि द्विविधज्ञानाच्छाब्दबोधापत्तेः। अथ व्युत्पत्तिरपि तत्तज्ज्ञानसहकारिणी, तथा च तत्तदानुपूर्वीज्ञानं तत्तदानुपूर्वीज्ञाने व्याकरणसंस्कृतपुरुषीयशाब्दबोधजनकत्वज्ञानं च तत्तदानुपूर्वीज्ञानजन्यशाब्दबोधहेतुरिति फलितमिति चेत्, न, निरुक्तप्रयुक्तत्वघटिताकाङ्क्षाज्ञानत्वेन कारणत्वे लाघवात्, अनन्यथासिद्धत्वादिघटितजनकत्वज्ञानत्वस्य गुरुत्वात्, कारणाभावप्रयुक्तः कार्याभाव इति धीसाक्षिकः स्वरूपसम्बन्धविशेषः प्रयुक्तत्वमिति मते सुतरां लाघवम् । अत्र 'घ'त्वाद्यवच्छिन्नप्रकारतानिरूपित'ट'त्वाद्यवच्छिन्नप्रकारतानिरूपिता'ऽम्'त्वाद्यवच्छिन्नप्रकारताकज्ञानत्वेन घटमित्याद्यानुपूर्वीज्ञानस्य घटादिपदव्यतिरेकप्रयुक्तान्वयाननुभावकममादिपदमितिज्ञानसहितस्य तादृशानुपूर्वीज्ञानविशिष्टघटादिविधेयककर्मत्वादिबोधे हेतुत्वं, लक्षणे च यादृशेति घविशिष्ट'ट' त्वाद्यवच्छिन्नपरं । सामान्यतो वृत्त्या घटोपस्थापकनामपदसमभिव्याहृतकर्मत्वोपस्थापकविभक्तिज्ञानं तादृशाननुभावकत्वज्ञानसहितं तथेति तु न युक्तं, वृत्त्या घटोपस्थापकत्वस्याव्यावर्तकत्वात्, तत्तत्काले तत्तत्पुरुषस्येत्युक्तौ च तत्तद्व्यक्तित्वे पर्यवसानादिति मन्तव्यम् । अथ अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राज्ञ इत्यस्य पुरुषान्वयाननुभावकत्वं पुरुषपदसमभिव्याहारेऽप्यस्तीति राज्ञ इत्यादिवाक्येऽपि पुरुषा