________________
द्वितीयो भागः [परि १०-का. १०३]
६७१
अष्टसहस्त्रीतात्पर्यविवरणम्
न्वयानुभावकत्वं न स्यादिति चेत्, न, अत्र पूर्वोत्तरभावरूपसमभिव्याहारसत्त्वेऽप्येकवाक्यताभिप्रायविषयत्वरूपसमभिव्याहाराभावात् सविभक्तिकपदयोस्तात्पर्यस्यापि तस्यैव वा समभिव्याहारत्वाद्राजपदनिष्ठाकाङ्क्षायाः ससम्बन्धिकपुत्रादिपदेन सह झटिति तेन तात्पर्यग्रहसमवहितत्वमुत्थितत्वं विपर्ययात्तदितरपदेनोत्थाप्यत्वमिति विशेषः । ननु राज्ञ इत्यस्य तात्पर्यभ्रमेण पुरुषेणान्वयबोधे पुत्रेण तात्पर्यग्रहेऽपि तेनान्वयबोधो न स्यादिति चेत्, न, तादृशान्वयाननुभावकत्वस्य सत्त्वाद्राज्ञः पुत्र इति बोधे जननीये तादृशबोधाभावस्यैव तत्त्वात् । न च एवं पुत्रेणान्वयबोधे पुरुषेणाप्याकाङ्क्षा स्यात्, तात्पर्यस्याकाङ्क्षाघटकत्वे तस्याभावात्, तदघटकत्वे इष्टत्वात्, तात्पर्यज्ञानाभावाच्च न तथाबोध इति । न च एवं तात्पर्येण गतार्थत्वं, घटः कर्मत्वमित्यादौ तद्ग्रहेऽपि शाब्दबोधाभावात्, राजपदमपरपदार्थान्वितराजप्रतीतिपरमित्यर्थतात्पर्यग्रहसत्त्वेऽप्येकवाक्यताभिप्रायविषयत्वज्ञानानुसरणमावश्यकं, राजपदं पुरुषपदेन पुत्रपदेन वा सहान्वयबोधकमिति संशये शाब्दबोधाभावात, तथा च यत्पदोपस्थितेरेकवाक्यताभिप्राययत्पदोपस्थितिव्यतिरेकेण यादृशान्वयानन्भावकत्वमित्यादि वाच्यम् । इत्थं च सैन्धवमानयेत्यादावेकवाक्यताभिप्रायज्ञानेऽपि सैन्धवपदमितरपदार्थान्वितलवणपरं तथाविधाश्वपरं वेति संशये शाब्दबोधानुदयादर्थतात्पर्यनिश्चयोऽपि कारणम्, एकवाक्यताभिप्रायस्याकाङ्क्षाघटकत्वमयमेति पुत्रो राज्ञ इत्यादौ तादृशाभिप्रायशालिपुत्रादिपदेनैव साकाङ्क्षत्वव्यवहारायेति मिश्राद्यनुसारी पन्थाः ।
अत्रान्वयाननुभावकत्वं तात्पर्यविषयतावच्छेदकावच्छिन्नान्वयानुभवाभावमाश्रित्य, तेनान्वयबोधद्वयं जायतामित्यादीच्छायामन्वयबोधद्वयादिकमपि युज्यते, अत एव च घटमानयेत्यादाववान्तरवाक्यार्थबोधोत्तरं महावाक्यार्थबोधो नानुपपन्नः, तत्पदार्थोद्देश्यकतत्पदार्थविधेयकबोधे तत्पदयोराकाङ्क्षादिज्ञानं हेतुः, महावाक्यार्थबोधे च नावान्तरवाक्यार्थांशे उद्देश्यविधेयभावः । इत्थं च घटविशिष्टकर्मत्वादिविधेयकानयनादिबोधे घटमित्यादिपदानामानयनादिपदेनैवाकाङ्क्षाज्ञानस्य हेतुत्वे तु नात्रानुपपत्तिलेशोऽपि, तादृशबोधानुपधायकत्वरूपाकाङ्क्षासत्त्वात् । न च अर्थतात्पर्यस्याप्याकाङ्क्षाघटकत्वे तात्पर्यज्ञानस्य पृथक्सहकारित्ववैफल्यम्, एतद्वाक्याद् बोधद्वयं जायतामित्यादितात्पर्यसाधारणेन विषयाविशेषितरूपेणेह तात्पर्यनिवेशात् विषयविशेषितरूपेण तु तज्ज्ञानहेतुताया आवश्यकत्वात् । न च एवमेतद्वाक्याद् बोधसहस्रं जायतामितीच्छया बोधसहस्रापत्तिः, आद्यवाक्यार्थबोधाद् द्वितीयवद् द्वितीयादेस्तृतीयादिबोधस्यापि सम्भवादिति वाच्यम्, एता