________________
६७२
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
दृशेच्छाया अनिवेश्यत्वात्, सैन्धवपदं लवणं बोधयित्वाऽश्वं बोधयत्विति तात्पर्यज्ञानजन्याश्वबोधे तद्वाक्यजन्यलवणबोधस्य हेतुत्वात् क्रमनिर्वाहः । आकाङ्क्षाया अंशत्रयमेक वाक्यताभिप्रायः, समभिव्याहारोऽननुभावकत्वं च तत्राद्ययोर्ज्ञानं हेतुरन्त्यस्य तु प्रतिबन्ध - काभावतया स्वरूपसत उपयोगः, अत्र शाब्दद्वयं जायतामितीच्छोत्तेजिका, तत्तदानुपूर्वीज्ञाने सदसद्व्युत्पन्नपुरुषीयशाब्दबोधाजनकत्वज्ञानस्य प्रतिबन्धकत्वान्न सद्व्युत्पन्नविपरीतव्युत्पन्नयोर्घटः कर्मत्वं घटमित्याभ्यामन्वयबोधः, इत्थं च प्रयुक्तत्वादिबोधविधुराणामपि न शाब्दबोधवैधुर्यमिति तु नव्याः । राजपदं पुत्रपदार्थान्वितराजबोधं जनयत्वित्याकारकार्थतात्पर्यग्रहहेतुत्वेनानतिप्रसङ्गेऽलं पदतात्पर्यग्रहहेतुत्वेनेति तु चिन्त्यम् । न च एवं विशेषणान्तरविशिष्टविशेष्येण पुनरन्वयबोधसम्भवात्प्राथमिक बोधस्यैव द्वितीयबोधजनकत्वेनावृत्तिदोषस्याप्यभावात् समाप्तपुनरात्तदोषोच्छेदापत्तिः, तत्रानपेक्षितविशेषणेन शाब्दबोधसम्भवेऽपि तच्छाब्दबोधेन रसोद्बोधविलम्बस्यैव दोषप्रयोजकताया अलङ्कारशास्त्रे व्यवस्थितत्वात् । नामविभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना परस्पराननुभावकत्वात्तेषां मिथः साकाङ्क्षत्वं घटो नील इत्यादौ तु विशेषणविभक्तिरभेदार्थिका, नामार्थप्रकारकान्वयबोधमात्रं प्रति विशेष्यतया प्रत्ययजन्योपस्थितेर्हेतुत्वात् । यद्वा वह्निना सिञ्चति घटः पचतीत्यादेरपि सेककरणत्वकृत्योः कालिकसम्बन्धेन वह्निघटनिष्ठत्वात् योग्यत्वापत्तिवारणाय तत्तन्नामतत्तद्धातुसमभिव्याहृततत्तद्विभक्तेस्तत्तत्सम्बन्धेन तत्तन्नामार्थतत्तद्विभक्त्यर्थप्रकारकबोधहेतुत्वस्याननुगतस्य वाच्यत्वात् घटो नील इत्यादावभेदेनान्वयबोधो नानुपपन्नः । (शङ्का) कथमत्र कस्यचिदभेदसम्बन्धेन कस्यचिदभेदप्रकारेण बोध ? इति चेत्, आद्यः सद्व्युत्पन्नस्य अन्त्यस्त्वन्यस्येति निश्चीयते, विशेषणविभक्तेरभेदार्थकत्वकल्पने गौरवादिति ।
मीमांसकास्तु घटो नील इत्यादौ नीलं घटमानयेत्यादौ च नीलोऽस्ति घटोऽस्ति नीलमानय घटमानयेत्यन्वयबोधो, न तु नामार्थानां कारकाणां च परस्परमन्वयः, विशेषणान्वितविभक्त्यर्थानयनानुभवादिति न विशिष्टवैशिष्ट्येनान्वयः । न च एवं नीलत्वेन घटत्वेन च घटयोरपि बोधः स्यादिति वाच्यम्, व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमेन नीलत्वेन घटत्वेन चैकस्यैव बोधात्, 'अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाती'त्यादावरुणया क्रीणाति एकहायन्या क्रीणातीत्यादिबोधेऽपि यथारुण्येन गुणेन क्रयासाधनेन
१. तुलना - जैमिनीयन्यायमालाविस्तर अ- ३, पाद १, सू० १२.