________________
द्वितीयो भाग: [ परि० १० - का० १०३ ]
अष्टसहस्त्रीतात्पर्यविवरणम्
६७३
प्राप्तक्रयसाधनताकगोरूपद्रव्यपरिच्छेदकतयैव क्रयसाधनत्वं प्रतीयत इत्याहुः, तदसत्, विशिष्टवैशिष्ट्यबोधान्वयस्यैवात्र युक्तत्वात्, अन्यथा वाक्यभेदापत्तेः, नीलघटमानयति न वेति संशयापत्तेः, नीलं घटं नानयतीत्यभावविशेषबोधान्यथानुपपत्तेश्च । यत्तु आकाङ्क्षायाः संशये शाब्दबोधानुदयात्तन्निश्चयत्वेन हेतुत्वं वाच्यम्, तथा च लाघवादनाकाङ्क्षत्वज्ञानमेव प्रतिबन्धकमस्तु। न च ज्ञानत्वेन प्रतिबन्धकत्वेऽप्रामाण्यनिश्चयाऽनास्कन्दितत्वप्रवेशे गौरवं, तवाप्याकाङ्क्षानिश्चयविशेषणाभावप्रतियोग्यप्रामाण्यज्ञाने तदप्रामाण्यनिश्चयानास्कन्दितत्वप्रवेशे गौरवात् । अनाकाङ्क्षत्वज्ञानवत्यपि घटाद्यवच्छेदेन समवायेन तदभावसत्त्वादवच्छेदकतासम्बन्धेन प्रतिबन्धकत्वस्य च भूतावेशस्थले एकशरीरावच्छेदेनात्मद्वये ज्ञानस्वीकारादसम्भवात्, एकावच्छेदेनैकात्मवृत्तित्वप्रत्यासत्त्युक्तौ गौरवं त्वाकाङ्क्षानिश्चयहेतुत्वेऽपि तुल्यम्, अन्यथा कायव्यूहादिस्थलेऽसम्भवादिति, तदसत्, निराकाङ्क्षत्वतद्व्याप्यादिमत्ताग्रहप्रतिबन्धकत्वकल्पने गौरवात् । यदपि साकाङ्क्षपदज्ञानजन्यपदार्थोपस्थितिरेव तत्त्वेन हेतु:, न त्वाकाङ्क्षाज्ञानं तत्त्वेन, घटमित्याद्यानुपूर्वीज्ञानस्य कुम्भमित्याद्यानुपूर्वीज्ञानस्य घटः कर्मत्वमित्यादिज्ञानजन्योपस्थितिसहकारेण बोधकत्ववारणायोक्तरूपेण हेतुत्वस्यावश्यकत्वादिति, तदपि न, घटमित्याद्यानुपूर्वीज्ञानस्य स्वघटकादेशादिस्मारितान्यतरपदज्ञानजन्यघटकर्मत्वाद्युपस्थितिसम्बन्धेन घटीयं कर्मत्वमित्यादिशाब्दबोधहेतुत्वेनोक्तदोषाभावात् । घटमित्यादिवाक्यजन्यावान्तरवाक्यार्थबोधादिरूपपदार्थोपस्थितिकालेऽमादिपदे, घटादिपदोत्तरत्वसन्देहे शाब्दबोधानुत्पादात् साक्षादप्यानुपूर्वीज्ञानं हेतुरित्यपरे ।
"का नाम योग्यता ? न तावत् सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याऽव्यावर्त्तकत्वात्, पदार्थतावच्छेदकेन तस्यायं पयः पिबतीत्यादावसम्भवात्, वाक्यार्थस्यापूर्वत्वाच्च, नापि समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयतापत्तेः, नापि बाधकप्रमाविरहः, स्वपरसाधारणबाधकप्रमाविरहस्य दुर्ज्ञेयत्वात्, स्वरूपसतोऽस्य हेतुत्वेऽयोग्ये योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः । स्वीयबाधकप्रमाविरहस्य हेतुत्वे त्वयोग्यताभ्रमदशायां शाब्दबोधापत्तेः । न च तदा विशिष्टज्ञानसामान्यहेतोर्बाधबुद्ध्यभावस्य विरहान्न तदापत्तिः, तर्हि तद्धेतुत्वेनैव निर्वाहे योग्यताधीहेतुत्वे मानाभावात् । (शङ्का) अस्त्वेवं लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतज्ज्ञानमात्रे तदभावनिश्चयस्य प्रतिबन्धकत्वाच्छाब्दप्रतिबन्धकत्वस्यापि तत एव सिद्धेः, योग्यताज्ञानविलम्बाच्च शाब्दबोधविलम्बस्यासिद्धत्वेन नव्यमतसाम्राज्यादिति चेत्, न, लौकिकसन्निकर्षदोषविशेषादेरुत्तेजकत्वपक्षे बाधबुद्धय