________________
६७४
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम् भावस्य प्रत्यक्षत्वादेरेव कार्यतावच्छेदकत्वाच्छाब्दत्वावच्छिन्ने योग्यताधीहेतुत्वौचित्येनोक्तमतासाम्राज्यात् । (शङ्का) न च तत्पक्षेऽप्यस्तु शुद्धबाधबुद्ध्यभावस्य परोक्षत्वावच्छिन्नहेतुत्वं, परोक्षत्वस्य प्रत्यक्षान्यज्ञानरूपत्वे विशेष्यविशेषणभावभेदेन गौरवात् । न च जातिरूपं तत्, इच्छाघटितस्मृत्यादिसामग्रीप्रतिबध्यतावच्छदेकताघटकजात्या सकरात्, सम्बन्धगौरवेण स्वाश्रयान्यत्वसम्बन्धेन स्मृतित्वस्यातत्त्वात् । किञ्च मुखं न चन्द्र इत्ययोग्यतानिश्चयेऽप्याहार्ययोग्यताज्ञानेन शाब्दबोधात्तदेव शाब्दधीहेतुः । न च एवं वह्निना सिञ्चतीत्यादावपि तथापत्तिः, आहार्ययोग्यताज्ञाने इष्टत्वात्, तदसत्त्वे शाब्दबोधाभावेन तद्धेतुत्वकल्पनात् । अत एव गालिप्रदानादितोऽपि शाब्दबोधसम्भवः । न च एवं लोकिकान्यबाधधीसत्त्वेऽपि लौकिकयोग्यताज्ञानात् शाब्दापत्तिः, इष्टत्वात्, विरोधिनिश्चयस्यैव चाहार्यत्वप्रयोजकत्वेन तच्छाब्दस्याहार्यत्वानापत्तेः, बाधबुद्धौ भ्रमत्वज्ञानाङ्गीकाराद्वा । किञ्च यत्र स्थलविशेषे बाधधीकाले योग्यताज्ञानं तत्र तस्य हेतुत्वध्रौव्ये विशेष्यतावच्छेदकतया तत्पुरुषीयशाब्दत्वावच्छिन्ने तया तत्पुरुषीययोग्यताज्ञानत्वेन हेतुत्वसिद्धिः, यत्र चालौकिकयोग्यताधीकाले लौकिकबाधधीस्तत्र तस्याः प्रतिबन्धकत्वस्वीकारान्न दोषः । किञ्च स्थूलजलपरस्य पयसा सिञ्चतीत्यादेरयोग्यत्वाय विशेष्यतया योग्यताज्ञानहेतुत्वसिद्धिः, बाधबुद्ध्यभावस्य धर्मितावच्छेदकान्तर्भावेनैव नव्यनये हेतुत्वादित्यन्यत्र विस्तरः ।
(शङ्का) तस्माच्छाब्दज्ञानहेतुर्योग्यता निर्वक्तव्येति चेत्, अत्रोच्यते, एकपदार्थेऽपरपदार्थसंसर्गवत्त्वं तेन संसर्गेणापरपदार्थवत्वं वा योग्यता । न च वाक्यार्थस्यापूर्वत्वात्तद् दुर्जेयता, प्रत्यक्षादिना संशयसाधारणतज्ज्ञानहेतुत्वस्वीकारेणादोषात्, गन्धप्रागभावकालावच्छिन्नो घटो गन्धवानित्यादौ तद्गन्धप्रागभावकालाद्यवच्छिन्नगन्धसमवायस्य तद्घटेऽभावादयोग्यत्वं । न च एवमेकविध्यर्थयोः कृतीष्टसाधनत्वयोः परस्परमन्वयो न स्यादुक्तयोग्यताविरहादिति वाच्यम्, एकपदार्थ इत्यादेरेकवृत्तिविषयेऽपरवृत्तिविषयसंसर्गवत्त्वमित्यर्थात, एवमेवकारादिस्थलेऽपि विचारणीयम् ।
आसत्तिरव्यवधानेनान्वयप्रतियोग्युपस्थितिः, एकपदार्थोपस्थित्यव्यवधानेनापरपदार्थोपस्थितिरिति यावत्, अव्यवधानं व्यवधानाभावः, तेन युगपन्नानापदार्थोपस्थितावपि न क्षतिः । तच्चार्थसिद्धं तत्तत्पदार्थशाब्दबुद्धौ तत्तत्पदार्थोपस्थितेर्हेतुतया विनाऽव्यवहितोपस्थिति शाब्दबोधासम्भवात्, (शङ्का) अस्याः स्वरूपसत्या एव हेतुत्वादासत्ति