________________
द्वितीयो भागः [ परि० १०-का० १०३]
६७५
अष्टसहस्त्रीतात्पर्यविवरणम्
निश्चयहेतुत्वं कुत इति चेत्, न कुतश्चित्, वृत्त्या पदजन्यपदार्थोपस्थितेः स्वरूपसत्या एव हेतुत्वात् । न च अनुपदोक्तानुपूर्वीज्ञानस्य निरुक्तोपस्थितिसम्बन्धेन हेतुत्वात्किमनयेति वाच्यम्, व्याप्तिज्ञानदण्डादेः स्वजन्यपरामर्शचक्रभ्रम्यादिसम्बन्धेन हेतुत्वेऽपि परामर्शचक्र भ्रम्यादिहेतुत्ववदासत्तेरपि तत्त्वात्, व्यापारस्य व्यापारिणाऽन्यथासिद्ध्यभावात्, आसत्तिनिश्चयहेतुत्वोक्तिस्तु प्राचां मतेनेति नव्याः । 'मिश्रास्तु ननु एकपदार्थोपस्थित्यव्यवधानविशिष्टापरपदार्थोपस्थिति सत्तिः, गिरि(क्तमग्निमान् देवदत्तेनेत्यात्राग्निमत्पदार्थोपस्थितौ सत्यां तदव्यवहितोत्तरक्षणे तस्यां गिर्युपस्थित्यव्यवधानभ्रमस्वीकारे भ्रमस्यैव निरुक्ताव्यवधानविशिष्टोपस्थितिरूपासत्तितया तभ्रमहेतुत्वे सिद्धान्तभङ्गप्रसङ्गात् । नाप्युपस्थापकपदाव्यवहितपदोपस्थितिः सा, व्यवहिते पदेऽपरपदाव्यवहितोत्तरत्वभ्रमस्यैवासत्तितया तद्दोषतादवस्थ्यात् । न च उपस्थापकपदाव्यवधानं सा, इत्थं च व्यवहितोक्तपदेऽव्यवहितत्वभ्रमसम्भवान्नानुपपत्तिरिति वाच्यम्, मौनिश्लोकादौ पदाभावेनासत्त्यभावापत्तेः, अत एवोच्चारणाव्यवधानं सेति परास्तं । न च उपस्थापकस्य पदस्य तदर्थस्य वाऽव्यवहितोपस्थित्यनुकूलव्यापारः सा, स च क्वचिदव्यवहितोच्चारणं क्वचिल्लिप्यादिकं च, इत्थं च व्यवहितोच्चरितादावप्यव्यवहितोच्चरितत्वादिभ्रमः सम्भवतीति वाच्यम्, तर्हि योजनादिनापि श्लोकादावन्वयबोधाभावापत्तेः । वक्त्रा व्यवहितोच्चरितमिति विशेषदर्शनेऽव्यवहितोच्चरितमिति भ्रमासम्भवात्, एकपदार्थोपस्थित्यव्यवधानेनापरपदार्थोपस्थित्यनुकूलव्यापारस्येति वाच्यतयैकपदार्थयोः परस्परमनन्वयापत्तेश्चेति चेत्, सत्यम्, एकत्वापरत्वयोर्न पदविशेषणत्वं, किन्त्वर्थविशेषणत्वमेवेत्यनुपदोक्तदोषाभावात् । वस्तुत एकपदार्थत्वमेकवृत्तिविषयत्वम्, अपरपदार्थत्वमपरवृत्तिविषयत्वं, तेन घटभेदो न घट इत्यादौ पदार्थाभेदेऽपि न क्षतिः । मेयाभिधेयादिबोधकतदादिपदार्थयोरेकवृत्तिविषयत्वे त्वेकापरवृत्तिविषयतावच्छेदकावच्छिन्नत्वमेकापरपदार्थत्वं वाच्यम् । व्यहितोच्चरिते च पदतात्पर्यमेव तथाव्यापारः, तदेव योजनया ज्ञाप्यते, शुकादिवाक्ये तु शिक्षयितुरेव तथाव्यापारः, ईश्वरस्यैव वा। न च यत्र तात्पर्यं व्यवधानेनोच्चारणमव्यवधानेन तत्र का गतिरिति वाच्यम् । तत्रोच्चारस्य सतोऽप्यकिञ्चित्करत्वात्, अन्वयबोधानुकूलोपस्थितेविवक्षितत्वात्, स्वविरोधिव्यवधानाभिप्रायापूर्वकोच्चारणाव्यवधानप्रयोज्योपस्थितेरेव शाब्दबोधोपधायकत्वस्वीकारात्, तथा च व्यवधानाभिप्रायापूर्वकाव्यवहितोपस्थित्यनुकूलव्यापार
१. मिश्रास्तु इत्यस्य इत्याहुरित्यनेनान्वयः पत्र ६७६-पं. ३ ।