________________
६७६
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
आसत्तिरिति फलितं । वस्तुत एतत्पदानन्तरं तत्पदं प्रतिसन्दधात्विति तात्पर्यमेवासत्तिः, इदं शुकस्यापि सम्भवि, ईश्वरीयं वा तत् सुलभं । न चैवमासत्तिभ्रमस्थलासम्भवो, वक्त्रन्तर्भावेन तत्सम्भवादित्याहुः, तच्चिन्त्यम, एकवाक्यताया अर्थतात्पर्यस्य निश्चये यथोक्तासत्तिनिश्चयं विना शाब्दबोधविलम्बाभावात्, न चैकवाक्यतैवानेनोपालक्षि, सम्भूयोच्चारणस्य चिन्तामणौ पृथगुपन्यासात्, तस्माद् व्यवधानेन वृत्त्या पदजन्यपदार्थोपस्थितिरासत्तिरिति प्रागुक्तमेव युक्तम् ।
तदेवं परस्परापेक्षाणामित्यस्याकाङ्क्षादिमतामित्यर्थात् आकाङ्क्षादिमतां पदानां समूहो वाक्यमिति न्यायनये स्थितं, निरपेक्षपदं त्वनतिप्रयोजनं, यदि च तस्य सप्रयोजनत्वे निर्बन्धः, तदा प्रकृतवाक्यस्य लक्ष्यस्य वाक्यान्तरैकवाक्यस्य महावाक्याव्यावर्त्तनेन प्रकृतान्वये प्रकृतवाक्यस्य महावाक्यस्थपदान्तरनिरपेक्षत्वात् । इदं तु ध्येयम्-साकाङ्क्षत्वमनाकाङ्क्षत्वं च स्याद्वादेनैव व्यवस्थापनीयम् । तत्पदव्यतिरेकप्रयुक्तान्वयाननुभावत्वरूपाकाङ्क्षापक्षे व्याकरणसंस्कृतपुरुषीयत्वेन निरुक्तान्वयबोधविशेषणे समभिव्याहाररूपाकाङ्क्षापक्षे च तत्तदानुपूर्वीज्ञाने व्याकरणसंस्कृतपुरुषीयशाब्दबोधजनकत्वज्ञानहेतुत्वोक्त्या घट: कर्मत्वमित्यादेः सव्युत्पन्न प्रति साकाङ्क्षत्ववारणेऽपि देवदत्तः पचतीत्यतो नैयायिकस्य नामार्थविशेष्यक एव बोधः, शाब्दिकस्य तु धात्वर्थविशेष्यक इति तत्तदन्वयबोधे तद्वाक्यस्यान्यतरं प्रति निराकाङ्क्षत्वावारणात् । न च तत्तन्नयव्युत्पन्नीयतद्वाक्यजतादृशबोधे तादृशव्युत्पत्तेर्हेतुत्वात् नयाकाङ्क्षकान्ताविरोधः, व्यभिचारेण भिन्नभिन्नव्युत्पत्तेरेवासिद्धेः तत्तद्व्युत्पत्तिवैशिष्ट्यस्य विपरीतव्युत्पन्नीयबोधसाधारण्येनातिप्रसञ्जकत्वादुभयव्युत्पन्नयोरुभयोरुक्तवाक्यान्नियमत उभयबोधापत्तेश्च । न च एकनयाभिमतव्युत्पत्तौ तदितरनयाभिमतशाब्दबोधजनकत्वाभावज्ञानस्य प्रतिबन्धकत्वाद् अदोषः, उभयव्युत्पत्तिसमाजे परस्परप्रतिबन्धेन कस्यापि बोधस्यानापत्तेः । कथं चैवं नैयायिकः शिष्येषु व्याकरणव्युत्पत्तिमादधानो देवदत्तः पचति एकदेवदत्ताभिन्नाश्रयपाकानुकूला भावनेति विवृणुयात् ? (शङ्का) आहार्याकाङ्क्षाज्ञानेन तथा बुद्ध्वा परं तथा बोधयितुं नानौचितीति चेत, सत्यम, आहार्यत्वस्यापि परस्परमविनिगमेन तथा तथा साकाङ्क्षनिराकाङ्क्षत्वाव्यवस्थितेः । एतेन एकनययुक्त्याऽपरनयाप्रामाण्यग्रहोऽपि व्याख्यातः अनेनैवाभिप्रायेण गणिययवयणिज्जसच्चा इत्यादिना सम्मतौ (१.२८) नयवाक्यानां कात्स्येन साकाङ्क्षत्वानाकाङ्क्षत्वभजना समथिता । एवं योग्यत्वमयोग्यत्वमासन्नत्वमनासन्नत्वं च