________________
द्वितीयो भागः [परि १०-का. १०३]
६७७
अष्टसहस्त्रीतात्पर्यविवरणम् -
देशकालादिभेदेन तात्पर्यादिभेदेन च भजनीयं । वस्तुतः समभिव्याहाररूपाकाङ्क्षा वाक्यशक्त्यवच्छेदकतयैवोपयुज्यते न पृथक्, घत्वावच्छिन्नप्रकारतानिरूपितटत्वावच्छिन्नप्रकारतानिरूपिताऽम्त्वावच्छिन्नविशेष्यताकघटविधेयककर्मत्वविशेष्यकशाब्दबोधजनकत्वप्रकारताकज्ञानत्वादिना तादृशशाब्दबोधहेतुत्वाकल्पनादाद्यवृद्धव्यवहारेण वाक्य एव शक्तिसिद्धरनन्तरमावापोद्वापक्रमेण पदशक्तिग्रहस्य च तत्रैवोपकाराच्छक्तेश्च जनकताविशेषरूपत्वाद्विशेषपदेनैव शक्तिलक्षणाभेदानुच्छेदात्, अन्यथेश्वरेच्छारूपशक्तिवादेऽप्यगतेः, केवलपदस्याननुभावकतापक्ष एव हि पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते [ ] इत्युक्तं युज्यत इत्युक्तं प्राक् । न च एवं द्रव्यनिक्षेपप्रयुक्तघटपदघटितवाक्याद्भावनिक्षेपविषयशाब्दबोधापत्तिः, स्वप्रयोज(क)निक्षेपप्रयुक्तवाक्यशक्तिग्रहद्वारैव पदशक्तिग्रहस्य हेतुत्वाद्, द्वारद्वारिभावेन चान्यथासिद्धरयोगात्, पदार्थोपस्थितिद्वारा पदज्ञानहेतुत्वे तु तद् [द्वारा] वारणाय शाब्दसामग्रयाः क्वचित्पदार्थस्मृतिघटितायाः क्वचिच्च शाब्दतदुपस्थितिघटितायाः स्मृतिप्रतिबन्धकत्वकल्पने महागौरवम्, एकवाक्यताभिप्रायश्चार्थतात्पर्यविधयैवोपयुज्यत इत्यननुभावकत्वांशोऽवशिष्यते, तत्र च स्वरूपसति प्रतिबन्धके परेषां शाब्दबोधद्वयेच्छादिवदस्माकं वाक्यार्थबोधेच्छादेरुत्तेजकत्वं, वाक्यार्थबोधादयश्चाभिप्रायिकपदसंवलने श्रुतरूपास्तदसंवलने मतिरूपा वा, प्रथमादिबोधद्वारा द्वितीयादिबोधे श्रुतहेतुत्वाच्च श्रुताभ्यन्तरीभूतत्वं क्रमनिर्वाहश्चेति, प्राणिनो न हन्तव्या इत्यादे'राज्ञाप्रामाण्यात् प्रमादमूलं प्राणिहननमनर्थसाधनम् इति तात्पर्यार्थपर्यन्तः सम्पूर्णो बोध इत्युपदेशपदाद्यनुसारी पन्थाः । क्वचिच्च प्राथमिकाद्वाक्यार्थविषयश्रुतज्ञानोत्तरं संशयं विनैव महावाक्यार्थजानुपपत्तिज्ञानरूपचिन्ताज्ञानादैदंपर्यविषयं भावनाज्ञानं जायत इति त्रिविधमेव शाब्दं ज्ञानमिष्यते, सामानाधिकरण्येनावच्छेदकावच्छेदेन च शाब्दद्वयेच्छायां द्विविधमपि तद् युज्यते, अर्थावच्छिन्नपदज्ञानोत्तरं तात्पर्यगर्भाकाङ्क्षाज्ञानाद् व्युत्पत्तिविशेषाद्वा पटिष्ठक्षयोपशमवत: प्रागेव तात्पर्यार्थज्ञानं सम्भवतीत्येकविधमेव तदिति तु नव्याः । मुखं चन्द्र इत्यादिरूपकस्थले आहार्ययोग्यताज्ञानस्य हेतुत्वानुरोधेन शाब्दमात्रे योग्यताज्ञानहेतुत्वमपि न युक्तिमत्, बाधज्ञाने सति तादृशस्थले आहार्यशाब्दस्यैव स्वीकारात्, इष्टव्यङ्ग्यप्रतीतिसाधनत्वज्ञानेन मुखे चन्द्राभेदशाब्द एव तत्रेच्छोदयौचित्यात्, अत एवाहार्यारोपो रूपकमिति प्राचामुक्तिः तादृशभाषायाश्च द्रव्यतोऽसत्यत्वेऽपि भावतः सत्यत्वात्, उपमापदस्यालङ्कारान्तरोपलक्षकत्वादुपमासत्यायां परिगणनं । न च एवं मृषान्तरस्यापि क्वचिद्भावतः सत्यत्वाद् द्रव्यभावभाषायां सत्याभेदत्वप्रसक्तिरिति वाच्यम् । क्वाचित्कत्वसार्वत्रिक