________________
६७८
अष्टसहस्त्रीतात्पर्यविवरणम् (१) न पुनराख्यातशब्दः, तस्य पदान्तरसापेक्षस्यापि क्वचिन्निरपेक्षत्वाभावे वाक्यत्वविरोधात्, प्रकृतार्थापरिसमाप्तेः निराकाङ्क्षस्य तु वाक्यलक्षणयोगादुपपन्नं वाक्यत्वम् ।
(२) सङ्घातो वाक्यमित्यत्रापि परस्परापेक्षाणां पदानामनपेक्षाणां वा ? प्रथमपक्षे निराकाङ्क्षत्वेऽस्मत्पक्षसिद्धिः, साकाङ्क्षत्वे वाक्यत्वविरोधः । द्वितीयविकल्पेऽतिप्रसङ्गः ।
(३) जातिः सङ्घातवर्तिनी वाक्यमित्यप्यनेन विचारितं निराकाङ्क्षपरस्परापेक्षपदसङ्घातवर्तिन्याः सदृशपरिणामलक्षणाया जातेर्वाक्यत्वघटनादन्यथा तद्विरोधात् ।
___ (४) एकोऽनवयवः शब्दो वाक्यमित्यप्ययुक्तं तस्याप्रमाणकत्वात्, श्रोत्रबुद्धौ तदप्रतिभासनात् तत्प्रतिबद्धलिङ्गाभावात् । अर्थप्रतिपत्तिलिङ्गमिति चेत्, न, अन्यथापि तद्भावात्, वाक्यस्फोटस्य क्रियास्फोटवत् तत्त्वार्थालङ्कारे निरस्तत्वात् ।
(५) क्रमो वाक्यमित्यपि न विचारक्षम, वर्णमात्रक्रमस्य वाक्यत्वप्रसङ्गात् । पदरूपतामापन्नानां वर्णविशेषाणां क्रमो वाक्यमिति चेत्, स यदि
- अष्टसहस्त्रीतात्पर्यविवरणम्
त्वाभ्यामेव विशेषात्, भावविशेषजन्यजनकतानवच्छेदकतया जातिभेदस्वीकाराच्च, क्वचिच्च शशशृङ्ग नास्तीत्यादौ वाक्यशक्त्या शशीयत्वेन शृङ्गाभावशाब्दबोधे पदार्थयोः संसर्गाभावनिश्चयोऽगुण एव, अन्यथा विशिष्टनिषेधप्रतीतावंशतो भ्रमत्वापत्तेः । गालिप्रदानादितोऽपि शाब्दबोधश्चेत, आहार्य एव, नो चेद, दुष्टवक्त्रभिप्रायसूचकत्वेनैव तस्य क्रोधजनकत्वम् । सत्यादित्वं वाचां जनपदसत्याद्यन्यतरत्वेनैव, द्रव्यभावभाषात्वं च तासां चतुर्विधद्रव्यपरिणतिमाश्रित्य, श्रुतभावभाषात्वं च तिसृणां फलीभूतश्रुतोपयोगापेक्षया मिश्रोपयोगाभावेन तृतीयस्या अत्रानधिकारात्, चारित्रभावभाषात्वं च प्रथमान्तिमयोरेव यत्याचारविहितत्वेन चारित्रोत्कर्षकत्वादित्यादिविस्तरो भाषारहस्ये इति कृतं प्रसङ्गेन ।
प्रकृतं प्रस्तुम:-न पुनराख्यातशब्द इत्यादि, शेषपक्षनिराकरणं प्रायः सुगमम् । क्रियास्फोटवदिति पूर्वापरीभूतावयवास्वाश्रितक्रमासु क्रियास्वेकः क्रियास्फोटो यथा नास्ति