________________
६७९
द्वितीयो भागः [परि. १०-का० १०३] परस्परापेक्षाणां निरकाङ्क्षस्तदा समुदाय एव, क्रमभुवां कालप्रत्यासत्तेरेव समुदायत्वात् सहभुवामेव देशप्रत्यासत्तेः समुदायत्वव्यवस्थितेः । अथ साकाङ्क्षस्तदा न वाक्यमर्धवाक्यवत् परस्परनिरपेक्षाणां तु क्रमस्य वाक्यत्वेऽतिप्रसङ्ग एव ।
(६) बुद्धिर्वाक्यमित्यत्रापि भाववाक्यं द्रव्यवाक्यं वा ? प्रथमकल्पनायामिष्टमेव । द्वितीयकल्पनायां प्रतीतिविरोधः ।
(७) अनुसंहृतिर्वाक्यमित्यपि नानिष्टं, भाववाक्यस्य यथोक्तपदानुसंहृतिरूपस्य चेतसि परिस्फुरतोऽभीष्टत्वात् ।
(८-९-१०) आद्यं पदमन्त्यं वान्यद्वा पदान्तरापेक्षं वाक्यमित्यपि नाकलङ्कोक्तवाक्याद्भिद्यते, तथा परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्यत्वसिद्धेः, तदभावे पदसिद्धेरप्यभावप्रसङ्गात् । ननु यदि निराकाङ्क्षः परस्परापेक्षपदसमुदायो वाक्यं
(भा०) न तर्हि तदानीमिदं भवति, यथा यत्सत्तत्सर्वं परिणामि, यथा घटः, सन् च शब्द इति
साधनवाक्यं । (भा० ) तस्मात्परिणामीत्याकाङ्क्षणात् ।
साकाङ्क्षस्य वाक्यत्वानिष्टिरिति न शङ्कनीयं, कस्यचित्प्रतिपत्तुस्तदनाकाङ्क्षत्वोपपत्तेः । निराकाङ्क्षत्वं हि नाम
(भा०) प्रतिपत्तुर्धर्मोऽयं वाक्येष्वध्यारोप्यते, न पुनः शब्दस्य धर्मस्तस्याचेतनत्वात् ।
(भा०) स चेत् प्रतिपत्ता तावतार्थं प्रत्येति, किमिति शेषमाकाङ्क्षति ? ।
- अष्टसहस्त्रीतात्पर्यविवरणम् तथा क्रमवत्पदसमुदाये वाक्यस्फोटोऽपि, एकत्वप्रतीतेर्द्रव्यप्रत्यासत्त्यैवोपपत्तेरिति । यथोक्तपदानुसंहतिरूपस्येति परस्परापेक्षनिरपेक्षपदानुस्मरणरूपस्येत्यर्थः । बुद्धिर्मानस्युत्प्रेक्षानुसंहतिः स्मरणमित्यनयोः पक्षयोर्भेदः । तावता= उदाहरणोपनयमात्रेण, अर्थं