________________
६८०
अष्टसहस्त्रीतात्पर्यविवरणम्
पक्षधर्मोपसंहारपर्यन्तसाधनवाक्यादर्थप्रतिपत्तावपि निगमनवचनापेक्षायां निगमनान्तपञ्चावयववाक्यादप्यर्थप्रतिपत्तौ साधनावयवान्तरवचनापेक्षाप्रसङ्गात् इति न क्वचिन्निराकाङ्क्षत्वसिद्धिः । तथा च वाक्याभावान्न वाक्यार्थप्रतिपत्तिः कस्यचित्स्यात् । ततो यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षपदेषु समुदितेषु निराकाङ्क्षत्वं तावत्सु वाक्यत्वसिद्धिरिति सर्वं सुस्थम् ।
__ (भा०) प्रकरणादिना वाक्यकल्पनेनाप्यर्थप्रतिपत्तौ न वा प्राथमकल्पिवाक्यलक्षणपरिहारः ।
प्रकरणादिगम्यपदान्तरसापेक्षश्रूयमाणपदसमुदायस्य निराकाङ्क्षस्य (भा०) सत्यभामादिपदवद्
वाक्यत्वसिद्धेः । तदेवं लक्षणेषु वाक्येषु स्यादिति शब्दोऽनेकान्तद्योती प्रतिपत्तव्यो, न पुनर्विधिविचारप्रश्नादिद्योती, तथाविवाक्षापायात् । कः पुनरनेकान्त इति चेद्, इमे ब्रूमहे ।
(भा०) सदसन्नित्यानित्यादिसर्वथैकान्तप्रतिक्षेपलक्षणोऽनेकान्तः । स च दृष्टेष्टाविरुद्ध इत्युक्तं प्राक् । तत्र
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रत्येति=प्रकृतसाध्यं निश्चिनोति । किमितीति शेषं निगमनं, किमित्याकाङ्क्षति साधनमात्रेणार्थसिद्धौ तत्रेष्टसाधनताज्ञानाभावेनाकाङ्क्षाभावात् यस्य च फलीभूतशाब्दबोधेच्छया निगमनशब्द एवाकाङ्क्षा तस्य तच्छब्दाध्याहारेणैव शाब्दबोध इति भावः । सत्यभामादिपदवदिति यथा भामापदेन सत्यभामापदं स्मर्यते तथा प्रकरणादिना पदान्तरमिति तत्सापेक्षश्रूयमाणपदसमुदायस्य न निराकाङ्क्षत्वव्याघात इति भावः । यत्र च प्रकरणादिनाऽखिल एव वाक्यार्थो ज्ञायते चेष्टादिना वा, तत्र तादृशवाक्यकल्पनयैव शाब्दव्यवहारः सङ्गतिमङ्गति, अत एव न चेष्टादेः प्रमाणान्तरत्वम्, अवश्यकल्प्यशब्दमुखनिरीक्षकत्वादिति दिग् । इत्युक्तः१ प्रागिति त्वन्मतामृतबाह्यानाम् इत्यादिकारिकाव्याख्यानावसरे न हि किञ्चिद्रपान्तरविकलमित्यादिना । तत्र क्वचित्प्रयुज्यमान इत्यादि क्वचिच्च जीवादिपदसमीपे
१. उक्तं इति अष्टसहस्रीसम्मतः पाठः ।