________________
द्वितीयो भागः [ परि. १०-का० १०३]
६८१ (भा०) क्वचित्प्रयुज्यमानः स्याच्छब्दस्तद्विशेषणतया प्रकृतार्थतत्त्वमवयवेन सूचयति, प्रायशो निपातानां तत्स्वभावत्वादेवकारादिवत् ।
द्योतकाश्च भवन्ति निपाता इति वचनात् [ ] स्याच्छब्दस्यानेकान्तद्योतकत्वेऽपि न कश्चिद्दोष, 'सामान्योपक्रमे विशेषाभिधानमिति न्याया
- अष्टसहस्त्रीतात्पर्यविवरणम्
प्रयुज्यमानः स्याच्छब्दस्तद्विशेषणतया जीवादिपदसमभिव्याहृततया, प्रकृतार्थतत्त्वं= सर्वथैकान्तप्रतिपक्षजीवादिपदार्थम्, अवयवेन जीवादिपदद्वारेण, सूचयति लक्षयति, तथा च जीवादिसामान्यविशेषशक्तस्य जीवादिपदस्य नित्यानित्याद्यनेकान्तात्मकजीवादिविशेषे लक्षणा तात्पर्यग्राहकत्वमेव स्याच्छब्दस्य द्योतकत्वमिति भावः । एवकारादिवदिति शङ्खः पाण्डुर एवेत्यादौ पाण्डुरादिपदस्य पाण्डुराद्यन्यत्वव्यवच्छिन्ने लाक्षणिकताया एवकारस्य च तत्र तात्पर्यग्राहकतायाः सम्प्रदायसिद्धत्वादिति भावः । न कश्चिद्दोष इति सम्भूयोच्चारेण स्यात्पदजीवादिपदाभ्यां मिलित्वाऽनेकान्तात्मकजीवादितत्त्वबोधनोपपत्तेरिति भावः । तथा च गम्यं प्रति विशेषणमित्यस्य समुदायशक्तिजन्यबोधे जीवादिपदस्य तुल्यकक्षतया सहकारीत्यर्थः । विशेषणमित्यनन्तरं च वाकारोऽध्याहृत्य योजनीयः, तेन पक्षद्वयाभिव्यक्तिर्भवति । यद्वाऽनेकान्तद्योतीत्यस्यानेकान्तं पदसामान्यशक्तिविषयं द्योतयत्यनुभावयतीत्येकोऽर्थः । स चापरेषां घटादिपदस्य सामान्यव्युत्पत्त्यनुरोधेन कार्यत्वान्वितघटादौ शक्तिग्रहेऽपि ततः कार्यत्वान्वितघटाद्यनुभवे कार्यतावाचकपदसमभिव्याहारापेक्षा, आनुभाविकायाः शक्तेस्तदपेक्षत्वात्, स्मारिका च जाताविति तदभावे घटत्वादिमात्रस्मरणमेवेति कुब्जशक्तिवादः । तथाऽस्माकं नित्यानित्याद्यनेकान्तकोडीकरणं विना व्यवहारमात्रस्यायोगाच्छब्दत्वावच्छेदेन नित्यानित्याद्यनेकान्तात्मक एव शक्तिग्रहादाद्यव्युत्पत्त्यनुरोधेन जीवादिपदस्यापि नित्यानित्याद्यनेकान्तात्मकजीवाद्यर्थ एव शक्तिर्गृह्यत इत्यानुभाविका शक्तिः, तथाऽनुभवजननेऽनेकान्तवाचकपदमपेक्षते स्मारिका तु नेति केवलजीवादिपदाज्जीवाद्यर्थोपस्थितिमात्रम्, अनेकान्तात्मकजीवाद्यर्थानुभवस्तु स्यात्पदसंयोगादित्येतत्पक्षपरिष्कारः । न चैवं मीमांसकमतानुप्रवेशः, सर्वनयात्मके भगवत्प्रवचने क्वचिन्मीमांसकमतोपग्रहस्याप्यदुष्टत्वात्, सिद्धार्थप्रामाण्यस्वीकारेणैव [स्याच्छब्दो लिङाद्यर्थव्यतिरिक्तार्थप्रतिपादकजीवादिपदसमभिव्याहृतस्यात्पदम]नेकान्तं द्योतयति । औपसन्दानिक्या शक्त्या बोधयति यः स तथेति द्वितीयोऽर्थः, तथा च स्याच्छब्दोत्तरजी[वादिपद
१. इत: ह. प्रतौ पाठः त्रुटितो वर्तते । पूर्वसंपादकेन पूरितः स अत्र कोष्ठके न्यस्तः ।