________________
६८२
अष्टसहस्त्रीतात्पर्यविवरणम् ज्जीवादिपदोपादानस्याप्यविरोधात् स्याच्छब्दमात्रयोगादनेकान्तसामान्यप्रतिपत्तेरेव सम्भवात् । सूचकत्वपक्षे तु गम्यमर्थरूपं प्रति विशेषणं स्याच्छब्दस्तस्य विशेषकत्वात् ।
(भा० ) न हि केवलज्ञानवदखिलमक्रममवगाहते किञ्चिद्वाक्यं, येन तदभिधेयविशेषरूपसूचक: स्यादिति न प्रयुज्यते । (भा० ) वाचः क्रमवृत्तित्वात् तद्बुद्धेरपि तथाभावात् ।
ततस्तव भगवतः केवलिनामपि स्यान्निपातोऽभिमत एवार्थयोगित्वादन्यथानेकान्तार्थप्रतिपत्तेरयोगात् ॥१०३॥
ननु न कथञ्चिदित्यादिशब्दादपि भवत्येवानेकान्तार्थप्रतिपत्तिः ? सत्यं भवति, तस्य स्याद्वचनपर्यायत्वात् । तथा हि
स्याद्वादः सर्वथैकान्तत्यागात् किंवृत्तचिद्विधिः ।
सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥१०४॥ किमो वृत्तः किंवृत्तः । स चासौ चिद्विधिश्चेति ।
(भा०) कथञ्चिदित्यादिः किंवृत्तचिद्विधिः स्याद्वादपर्यायः । सोऽयमनेकान्तमभिप्रेत्य सप्तभङ्गनयापेक्षः स्वभावपरभावाभ्यां सदसदादिव्यवस्था प्रतिपादयति ।
के पुनः सप्तभङ्गाः के वा नयाः ? ।
अष्टसहस्रीतात्पर्यविवरणम्
प्रतिपाद्या] नेकान्तात्मकजीवाद्यर्थे विशिष्य शक्तिस्वीकारादौपसन्दानिकी शक्तिरेवात्र द्योतनमिति भावः । उभयत्रापि गम्यं प्रति विशेषणमित्यस्य पदान्तरबोध्यबोधने सहकारीत्यर्थः । तदाह-सूचकत्वपक्षेऽपीति, अपिर्वाचकत्वपक्षं समुच्चिनोति । तद्बुद्धेरपि तथाभावादिति तेन तदादिवत् स्याच्छब्दस्य स्वातन्त्र्येण बुद्धिविषयतावच्छेदकावच्छिन्नेऽपि शक्तिः, तद्बोधकताया वैचित्र्यादिति स्यादस्तीत्यादावस्तित्वाद्यवच्छेदकस्वद्रव्यक्षेत्रकालभावादीनामपि ततो नासाङ्कर्येणानुपस्थितिरिति ध्येयम् । धर्मिवाचकपदसमभिव्याहृतं