________________
द्वितीयो भागः [परि १०-का. १०४]
६८३ (भा०) सप्तभङ्गी प्रोक्ता पूर्वमेव ।
__ [द्रव्यार्थिकपर्यायाथिकनययोः भेदप्रभेदान् वर्णयन्त्याचार्या:] (भा०) द्रव्यार्थिकपर्यायार्थिकप्रविभागवशान्नैगमादयः शब्दार्थनया बहुविकल्पा मूलनयद्वयशुद्धयशुद्धिभ्यां ।
शास्त्रान्तरे प्रोक्ता इति सम्बन्धः । द्रव्यार्थिकप्रविभागाद्धि नैगमसङ्ग्रहव्यवहाराः पर्यायार्थिकप्रविभागादृजुसूत्रादयः । तत्र ऋजुसूत्रपर्यन्ताश्चत्वारोऽर्थनयाः, तेषामर्थप्रधानत्वात् । शेषास्त्रयः शब्दनयाः शब्दप्रधानत्वात् । तत्र मूलनयस्य द्रव्याथिकस्य शुद्ध्या सङ्ग्रहः, सकलोपाधिरहितत्वेन शुद्धस्य सन्मात्रस्य विषयीकरणात् सम्यगेकत्वेन सर्वस्य सङ्ग्रहणात् । तस्यैवाशुद्ध्या व्यवहारः, सङ्ग्रहगृहीतानामर्थानां विधिपूर्वकत्वव्यवहरणात्, द्रव्यत्वादिविशेषणतया स्वतोऽशुद्धस्य स्वीकरणात्, यत्सत्तद् द्रव्यं गुणो वेत्यादिवत् । एवं नैगमोऽप्यशुद्ध्या प्रवर्तते, सोपाधिवस्तुविषयत्वात् । स हि त्रेधा प्रवर्तते, द्रव्ययोः पर्याययोर्द्रव्यपर्याययोर्वा गुणप्रधानभावेन विवक्षायां नैगमत्वात्, नैकं गमो नैगम इति निर्वचनात् । तत्र द्रव्यनैगमो द्वेधा-शुद्धद्रव्यनैगमोऽशुद्धद्रव्यनैगमश्चेति । पर्यायनैगमस्त्रेधा-अर्थपर्याययोर्व्यञ्जनपर्याययोरर्थव्यञ्जनपर्याययोश्च नैगम इति । अर्थ
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्यात्पदमनेकान्तात्मकत्वद्योतकं धर्मवाचकपदसमभिव्याहृतं तु तत्तत्स्वद्रव्यक्षेत्रकालाद्यवच्छेदस्फोरकं सकलादेशमहिम्ना तु प्रकृतधर्मे स्वेतरानन्तधर्माभिन्नत्वस्य प्रकारतया प्रकृतधर्मस्य स्वस्वेतरानन्तधर्मात्मकत्वसम्बन्धेन धर्मिण्यन्वयाभ्युपगमाद्वा न काचिदनुपपत्तिरिति श्रद्धेयं स्वसमयव्युत्पत्तिशालिभिः ॥१०३।।
अर्थप्रधानत्वात् शब्दतद्धर्मभेदेनार्थभेदास्वीकर्तृत्वात्, शब्दप्रधानत्वात् शब्दतद्धर्मभेदेनार्थभेदस्वीकर्तृत्वात्, एवं नैगमोऽप्यशुद्ध्या प्रवर्त्तत इति अशुद्धिरत्र भेदपरता, द्रव्याथिकेऽभेदभेदयोरेव शुद्धयशुद्धिपदार्थत्वादिति यथास्थानं भावनीयम् । द्रव्ययोरित्यादि अभिलापश्चात्रात्मा पुद्गली, मनुष्यपर्यायो देवपर्यायोत्तरः, द्रव्यमनन्तपर्यायवदित्यादिः । शुद्धद्रव्यनैगमो यथाऽऽकाशद्रव्यं धर्मद्रव्यसंयुक्तमिति । अशुद्धद्रव्यनैगमो यथा घटद्रव्यं