________________
६८४
अष्टसहस्त्रीतात्पर्यविवरणम् पर्यायनैगमस्त्रेधा ज्ञानार्थपर्याययोर्जेयार्थपर्याययोर्ज्ञानज्ञेयार्थपर्याययोश्चेति । व्यञ्जनपर्यायनैगमः षोढा—शब्दव्यञ्जनपर्याययोः समभिरूढव्यञ्जनपर्याययोरेवंभूतव्यञ्जनपर्याययोः शब्दसमभिरूढव्यञ्जनपर्याययोः शब्दैवंभूतव्यञ्जनपर्याययोः समभिरूद्वैवंभूतव्यञ्जनपर्याययोश्चेति । अर्थव्यञ्जनपर्यायनैगमस्त्रेधा ऋजुसूत्रशब्दयोः, ऋजुसूत्रसमभिरूढयोः ऋजुसूत्रैवंभूतयोश्चेति । द्रव्यपर्यायनैगमोऽष्टधा-शुद्धद्रव्यर्जुसूत्रयोः शुद्धद्रव्यशब्दयोः शुद्धद्रव्यसमभिरूढयोः शुद्धद्रव्यैवंभूतयोश्च, एवमशुद्धद्रव्यर्जुसूत्रयोरशुद्धद्रव्यशब्दयोरशुद्धद्रव्यसमभिरूढयोरशुद्धद्रव्यैवंभूतयोश्चेति लोकसमयाविरोधेनोदाहार्यम् ।
तथा पर्यायार्थिकस्य मूलनयस्याशुद्ध्या तावदृजुसूत्रः, तस्य कालकारकलिङ्गभेदेनाप्यभेदात् । शुद्ध्या शब्दस्तस्य कालादिभेदेन भेदात् । शुद्धितरया समभिरूढस्तस्य पर्यायभेदेनापि भेदात् । शुद्धितमयैवंभूतस्तस्य क्रियाभेदेनापि भेदात्, इति मूलनयद्वयशुद्ध्यशुद्धिभ्यां बहुविकल्पा नया नयचक्रतः प्रतिपत्तव्याः पूर्वपूर्वा महाविषया उत्तरोत्तरा अल्पविषयाः शब्दविकल्पपरिणामाश्च । तदेवं व्याख्यातः
अष्टसहस्त्रीतात्पर्यविवरणम्
पटद्रव्यसंयुक्तमिति । अर्थपर्याययो गमस्त्रिविधो यथा मतिज्ञानं श्रुतज्ञानसहचरितमिति 'ज्ञानरूपार्थपर्याययोः, मतिविषयपर्यायः श्रुतविषयपर्यायसदृश इति ज्ञेयार्थपर्यायो-, ग्राहकाकारो ग्राह्याकारानुगत इति ज्ञानज्ञेयपर्याययोः, । व्यञ्जनपर्याययोः षोढा नैगमो यथा(१) तट इति शब्दवाच्यस्तटीतिशब्दवाच्यसदृश इति शब्दव्यञ्जनपर्याययोः (२) घटशब्दवाच्यः पर्याय: कुम्भशब्दवाच्यसदृश इति, समभिरूढव्यञ्जनपर्याययोः (३) राजपदव्युत्पत्तिनिमित्तक्रिया सुप्पदव्युत्पत्तिनिमित्तक्रियासदृशीति एवम्भूतव्यञ्जनपर्याययोः (४) भिन्नलिङ्गतटादिशब्दवाच्यपर्यायो भिन्नशब्दवाच्यसदृश इति शब्दसमभिरूढव्यञ्जनपर्याययोः (५) संभिन्नक्रिया शब्दवाच्यसदृश इति शब्दै [ 'वंभूतव्यञ्जनपर्याययोः] (६) संभिन्नवर्तमानक्रिया शब्दवाच्यसदृश इति समभिरूढैवंभूतव्यञ्जनपर्याययोः
१. ज्ञानार्थ इति अष्टसहस्रीसम्मतः पाठः ।
२. इतोऽग्रेतनं विवरणं त्रुटितं लक्ष्यतेऽतः असंपूर्णोऽयं ग्रन्थः । हस्तप्रतेः अन्तिमे पृष्ठे केनचित् नवमपरिच्छेदान्त्यभागवर्तिपद्यद्वयम् (तदप्यपूर्णम्) लिखितं दृश्यते । तच्च न उपाध्यायप्रवरेणालेखि इति । अत्र च पूर्वसंपादकेन मुद्रितः पूरितश्च पाठ यथादृष्टस्तथा न्यस्तः ।।