________________
द्वितीयो भागः [परि १०-का० १०५]
६८५ सप्तभङ्गनयापेक्षः स्याद्वादो हेयादेयविशेषकः प्रसिद्धस्तमन्तरेण हेयस्योपादेयस्य च विशेषेण व्यवस्थानुपपत्तेः । सर्वतत्त्वप्रकाशकश्च केवलज्ञानवत् । एतदेव दर्शयति
स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥१०५॥
[स्याद्वादकेवलज्ञानयोः किमन्तरमिति स्पष्टयन्ति जैनाचार्याः ।] साक्षादसाक्षात् प्रतिभासिज्ञानाभ्यामन्यस्याप्रतीतेरवस्तुत्वप्रसिद्धः इत्यर्थः ।
(भा०) स्याद्वादकेवलज्ञाने इति निर्देशात् तयोरभ्यर्हितत्वानियम दर्शयति, परस्परहेतुकत्वात् ।
न चैवमन्योन्याश्रयः, पूर्वसर्वज्ञद्योतितादागमादुत्तरसर्वज्ञस्य केवलोत्पत्तेः ततोऽप्युत्तरकालमागमद्योतनात् सर्वज्ञागमसन्तानस्यानादित्वात् । केवलज्ञानस्य
(भा० ) अभ्यर्हितत्वे वा पूर्वनिपाते व्यभिचारं सूचयति,
शिष्योपाध्यायादिवत् । ततोऽनवद्यो निर्देशः स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने इति ।
(भा०) कथं पुनः स्याद्वाद्वः सर्वतत्त्वप्रकाशनः ? यावता मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु
इति [तत्त्वा० १.२६] श्रुतस्यासर्वपर्यायविषयत्वव्यवस्थानमिष्यते, तच्चैवं विरुद्ध्यते, इति सूत्रविरोधं मन्यते तदयुक्तं, पर्यायापेक्षया तदनभिधानात् । एवं हि भगवतामभिप्रायोऽत्र ।
(भा०) जीवादयः सप्त पदार्थास्तत्त्वं । जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् इति वचनात् [तत्त्वा० १.४] ।
- अष्टसहस्त्रीतात्पर्यविवरणम् व्युत्पत्तिनिमित्तक्रिया वर्तमानक्रियासदृश इति । एवं ऋजुसूत्रशब्दयोः ऋजुसूत्रसमभिरूढयोः