________________
६८६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) तत्प्रतिपादनाविशेषात् ।
स्याद्वादकेवलज्ञानयोः सर्वतत्त्वप्रकाशनत्वम् इति न विरोधः । यथैव ह्यागमः परस्मै जीवादितत्त्वमशेष प्रतिपादयति तथा केवल्यपीति न विशेषः । साक्षादसाक्षाच्च तत्त्वपरिच्छित्तिनिबन्धनत्वात् तद्भेदस्य ।
(भा०) तदाह
भेदः साक्षादसाक्षाच्चेति । साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिच्छिनत्ति नान्यत इति यावत् ।
न हि वचनात्तान्प्रकाशयति, समुत्पन्नकेवलोऽपि भगवान्, तेषां वचनागोचरत्वात् । तदेवं स्याद्वादनयसंस्कृतं तत्त्वज्ञानं प्रमाणनयसंस्कृतमिति व्याख्याने, स्याद्वादः प्रमाणं सप्तभङ्गीवचनविधि:गमादयो बहुविकल्पा नया इति सङ्खपत: प्रतिपादितं, विस्तरतोऽन्यत्र तत्प्ररूपणात् ॥१०५।।
सम्प्रत्यहेतुवादागमः स्याद्वादो हेतुवादो नयस्ताभ्यां संस्कृतमलङ्कृतं तत्त्वज्ञानं प्रमाणं युक्तिशास्त्रविरुद्धं सुनिश्चितासम्भवद्बाधकमिति व्याख्यानान्तरमभिप्रायवन्तो भगवन्तो हि हेतुलक्षणमेव प्रकाशयन्ति, स्याद्वादस्य प्रकाशितत्वात् ।
सधर्मणैव साध्यस्य साधादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥१०६॥
[नयस्य लक्षणं कृत्वा स हेतुरिति समर्थयन्ति ।] नीयते साध्यते गम्यार्थोऽनेनेति नयो हेतुः स च हेतुः सधर्मणैव दृष्टान्तधर्मिणा साधर्म्यात्साध्यस्य साध्यधर्माधिकरणस्य धर्मिणः परमागमप्रविभक्तस्यार्थविशेषस्य शक्यस्याभिप्रेतस्याप्रसिद्धस्य विवादगोचरत्वेन व्यञ्जको, न पुनर्विपक्षेण साधर्म्यात्, तेन वैधादेवाविरोधेन हेतोः साध्यप्रकाशनत्वोपपत्तेः ।
अत्र
- अष्टसहस्त्रीतात्पर्यविवरणम्
ऋजुसूत्रैवंभूतयोरिति त्रिविधोऽप्यर्थव्यञ्जनपर्यायनैगमः, अष्टधा च द्रव्यपर्यायनैगमः इत्यादि स्वधिया विभाव्योदाहार्यम्] ॥१०४||