________________
द्वितीयो भागः [परि. १०-का० १०६]
६८७ (भा०) सपक्षेणैव साध्यस्य साधादित्यनेन हेतोस्टेलक्षण्यमविरोधादित्यन्यथानुपपत्तिं च दर्शयता, केवलस्य त्रिलक्षणस्यासाधनत्वमुक्तं, तत्पुत्रत्वादिवत् । एकलक्षणस्य तु गमकत्वं, नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते इति बहुलमन्यथानुपपत्तेरेव समाश्रयणात् ।
नन्वत्र सङ्क्षपात् तथाभिधानेऽपि त्रैलक्षण्यं शक्यमपुदर्शयितुं पञ्चावयववत् । सत्यमेतत्, केवलं
(भा०) यत्रार्थक्रिया न सम्भवति तन्न वस्तुतत्त्वं, यथा विनाशैकान्तः । तथा च नित्यत्वेऽपि क्रमयोगपद्याभ्यामर्थक्रिया न सम्भवति, नापरं प्रकारान्तरमिति, त्रिलक्षणयोगेऽपि प्रधानमेकलक्षणं, तत्रैव साधनसामर्थ्यपरिनिष्ठितेः । तदेव च प्रतिबन्धः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकम् ।
न पुनस्तादात्म्यतदुत्पत्ती प्रतिबन्धः संयोगादिवत्, तदभावेऽपि हेतोः साध्याभावासम्भवनियमनिर्णयलक्षणस्य भावे गमकत्वसिद्धेः, शीताचले विद्युत्पातः, केदारे कलकलायितत्वादित्यादिवत्, सत्यपि च तदुत्पत्त्यादिप्रतिबन्धेऽन्यथानुपपन्नत्वाभावे गमकत्वासम्भवात्, स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादिवत्, अस्त्यत्र धूमोऽग्नेमहानसवदित्यादिवच्च । सकलविपक्षव्यावृत्तिनिश्चयाभावादस्यागमकत्वेऽन्यथानुपपन्नत्वनिश्चयाभावादेवागमकत्वमुक्तं स्याद् इति तस्यैव लक्षणत्वमस्तु, सकलसम्यग्घेतुभेदेषु कार्यस्वभावानुपलम्भेष्विव पूर्ववत्-शेषवत्-सामान्यतोदृष्टेषु वीतावीतदुभयेषु संयोगितसमवायैकार्थसमवायिविरोधिषु भूतादिषु प्रवतमानस्य पक्षव्यापिनः सर्वस्माच्च विपक्षादसिद्धादिहेत्वाभासप्रपञ्चाद् व्यावर्तमानस्यान्यथानुपपन्नत्वस्य हेतुलक्षणत्वोपपत्तेः तथाविधस्यापि तदलक्षणत्वे हि न किञ्चित्कस्यचिल्लक्षणं स्यादिति लक्ष्यलक्षणभाव एवोच्छिद्येत । सति चान्यथानुपपन्नत्वे प्रतिपाद्याशयवशात् प्रयोगपरिपाटी पञ्चावयवादिरपि न निवार्यते इति तत्त्वार्थालङ्कारे विद्यानन्दमहोदये च प्रपञ्चतः प्ररूपितम् ।
[प्रमाणनयदुर्नयानां लक्षणं कुर्वन्ति जैनाचार्याः ।] (भा०) ततः स्याद्वादेत्यादिनानुमितमनेकान्तात्मकमर्थतत्त्वमादर्शयतितदेव हि स्याद्वादप्रविभक्तोऽर्थः, प्राधान्यात्, सर्वाङ्गव्यापित्वात् ।