________________
६८८
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा०) तस्य विशेषो नित्यत्वादिः पृथक् पृथक् । तस्य प्रतिपादको नयः ।
इति नयसामान्यलक्षणमप्यनेन दर्शितमिति व्याख्यायते । (भा०) तथा चोक्तम्,
अर्थस्यानेकरूपस्य धीः प्रमाणं, तदंशधीः ।
नयो धर्मान्तरापेक्षी दुर्नयस्तन्निराकृतिः ॥ [ (भा०) इति तदनेकान्तप्रतिपत्तिः प्रमाणमेकधर्मप्रतिपत्तिर्नयस्तत्प्रत्यनीकप्रतिक्षेपो दुर्नयः, केवलविपक्षविरोधदर्शनेन स्वपक्षाभिनिवेशात् । किं पुनर्वस्तु स्यादित्याहु:
नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविभ्राड्भावसम्बन्धो द्रव्यमेकमनेकधा ॥१०७॥
[वस्तुनो लक्षणं किमिति प्रश्ने आचार्याः उत्तरयन्ति ।] (भा०) उक्तलक्षणो द्रव्यपर्यायस्थानः सङ्ग्रहादिर्नयः तच्छाखाप्रशाखात्मोपनयः । तदेकान्तानां विपक्षोपेक्षालक्षणानां त्रिकालविषयाणां समितिर्द्रव्यं ।
वस्तु गुणपर्ययवद् द्रव्यम् इति वचनात् [ तत्त्वा० ५.३८] । क: पुनस्तेषां समुच्चयो नामेति चेत्, कथञ्चिदविभ्राड्भावसम्बन्ध इत्याचक्षते, ततोऽन्यस्य समुच्चयस्य संयोगादेरसम्भवात् द्रव्यपर्यायविशेषाणाम् । न चैवमेकमेव द्रव्यं नयोपनयैकान्तपर्यायाणां तत्तादात्म्यादित्यारेकितव्यं, ततस्तेषां कथञ्चिद्भेदादनेकत्वम् इति वचनात् [ ] । तीनेकमेवास्तु तादात्म्यविरोधादनेकस्थस्येत्यपि न शङ्कितव्यं, कथञ्चित्तादात्म्यस्याशक्यविवेचनत्वलक्षणस्याविरोधात्तथाप्रतीतेः ।
केवलं
(भा०) ततस्तेषामपोद्धाराद् गुणगुण्यादिवत् तदनेकधा । ततः सूक्तं-त्रिकालवर्तिनयोपनयविषयपर्यायविशेषसमूहो द्रव्य