________________
६८९
द्वितीयो भागः [परि० १०-का. १०८-१०९] मेकानेकात्मकं जात्यन्तरं वस्तुइति । अत्र परारेकामुपदर्श्य परिहरन्तः सूरयः प्राहु:
मिथ्यासमूहो मिथ्या चेत्, न मिथ्यैकान्ततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥१०८॥
[सुनयकुनययोर्लक्षणम्] (भा०) सुनयदुर्नययोर्यथास्माभिर्लक्षणं व्याख्यातं तथा न चोद्यं न परिहारः ।
निरपेक्षाणामेव नयानां मिथ्यात्वात् तद्विषयसमूहस्य मिथ्यात्वोपगमात्, सापेक्षाणां तु सुनयत्वात्तद्विषयाणामर्थक्रियाकारित्वात्, तत्समूहस्य वस्तुत्वोपपत्तेः ।
(भा० ) तथा हि-निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृतिः ।
सापेक्षत्वमुपेक्षा, अन्यथा प्रमाणनयाऽविशेषप्रसङ्गात्, धर्मान्तरादानोपेक्षाहानिलक्षणत्वात प्रमाणनयदर्नयानां प्रकारान्तरासम्भवाच्च. प्रमाणात्तदतत्स्वभावप्रतिपत्तेर्नयात्तत्प्रतिपत्तेदुर्नयादन्यनिराकृतेश्च, इति विश्वोपसंहृतिः ।
व्यतिरिक्तप्रतिपत्तिप्रकाराणामसम्भवात् ॥१०८।।
नन्वेवमनेकान्तात्मार्थः कथं वाक्येन नियम्यते यतः प्रतिनियते विषये प्रवृत्तिर्लोकस्य स्यादित्यारेकायामिदमभिदधते
नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा ।
तथान्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥१०९॥ [अनेकान्तात्मकोऽर्थः विधिना वाक्येन प्रतिषेधवाक्येन वा निश्चीयते अन्यथा न ।]
(भा० ) यत्सत्तत्सर्वमनेकान्तात्मकमर्थक्रियाकारित्वात् स्वविषयाकारसंवित्तिवत् ।
यद्विवादाध्यासितं वस्तु तत्सर्वं धर्मि प्रत्येयम्, अप्रसिद्ध साध्यम् इति वचनात् [ ] तस्यानेकान्तात्मकत्वेन विवादाध्यासितत्वात् साध्यत्वोपपत्तेः । अर्थक्रियाकारित्वादिति हेतुरसिद्धत्वादिदोषानाश्रयत्वात् प्रधानैकलक्षणयोगाच्च । स्वविषयाकारसंवित्तिवदित्युदाहरणं, तथा वादिप्रतिवादिसिद्धत्वात् । सौगतस्य