________________
अष्टसहस्त्रीतात्पर्यविवरणम्
चित्राकारैकसंवेदनोपगमात्, यौगानामीश्वरज्ञानस्य स्वार्थसंवेदिनो मेचकज्ञानत्वोपगमात्, कापिलानामपि स्वरूपबुद्ध्यध्यवसतितार्थसंवेदिनः स्वसंवेदनस्येष्टेः, श्रोत्रियाणामपि फलज्ञानस्य स्वसंवेदिनोऽर्थपरिच्छित्तिरूपस्य प्रसिद्धेः, चार्वाकस्यापि प्रत्यक्षस्य वेदनस्य स्वार्थपरिच्छेदिनोऽभ्युपगमनीयत्वात् सम्यगिदं साधनवाक्यम् । तथा
६९०
( भा० ) न किञ्चिदेकान्तं वस्तुतत्त्वं सर्वथा तदर्थक्रियासम्भवाद् गगनकुसुमादिवद्
इति । अत्रापि विवादापन्नं वस्तुतत्त्वं धर्मि पराध्यारोपितैकान्तत्वेन प्रतिषेध्यं, क्वचित् सत इवारोपितस्यापि प्रतिषेध्यत्वसिद्धेरन्यथा कस्यचित्परमतप्रतिषेधायोगात्, सत एव सञ्ज्ञिनः प्रतिषेधो नासतः इत्यस्याप्यविरोधात् सम्यगेकान्ते प्रसिद्धस्य रूपस्य सापेक्षस्य निरपेक्षत्वेनारोपितस्य क्वचित्प्रतिषेधात्, सर्वथा तदर्थक्रियाभावात् इति हेतुर्व्यापकानुपलब्धिरूपत्वात् गगनकुसुमादिवदित्युदाहरणं साध्यसाधनावैकल्याद् गगनकुसुमादेरत्यन्ताभावस्य परैरेकान्तवस्तुरूपत्वसर्वथार्थक्रियाकारित्वयोरनिष्टेः इतीदमपि श्रेयः साधनवाक्यम् । विशेषेण पुनः
( भा०) नास्ति सदेकान्तः, सर्वव्यापारविरोधप्रसङ्गादसदेकान्तवत् । एतेन विशेषतोऽनेकान्तात्मकः परिणाम्यात्मार्थक्रियाकारित्वात् प्रधानवदित्याद्युपदर्शितम् ।
( भा० ) इति विधिना प्रतिषेधेन वा वस्तुतत्त्वं नियम् ।
तथान्यथा च तस्यावश्यंभावसमर्थनात् ।
( भा० ) अन्यथा तद्विशिष्टमर्थतत्त्वं
विशेष्यमेव न स्याद्विधेः प्रतिषेधरहितस्य प्रतिषेधस्य च विधिरहितस्य विशेषणत्वनिराकरणात् तदुभयरहितस्य च विशेष्यत्वविरोधात् खपुष्पवत् ।
(भा० ) इत्यनेन विधिप्रतिषेधयोर्गुणप्रधानभावेन सदसदादिवाक्येषु वृत्तिरिति लक्षयति ।
ततो न तेषां पौनरुक्त्यं, येन सप्तभङ्गीविधिरनवद्यो न स्यात् ॥ १०९॥ विधिनैव वस्तुतत्त्वं वाक्यं नियमयति सर्वथेत्येकान्ते दूषणमुपदर्शयन्ति -