________________
द्वितीयो भागः [ परि० १०-का० ११०-१११]
६९१ तदतद्वस्तुवागेषा तदेवेत्यनुशासती । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥११०॥
[वाक्यं विधिमुखेनैव वस्तुतत्त्वं वक्तुं न शक्नोति ।] (भा० ) प्रत्यक्षादिप्रमाणविषयभूतं विरुद्धधर्माध्यासलक्षणमविरुद्धं वस्तु समायातं, स्वशिरस्ताडं पूत्कुर्वतोऽपि तदतद्रूपतयैव प्रतीतेः । तदुक्तं
विरुद्धमपि संसिद्धं तदतद्रूपवेदनम् । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ? ॥१॥ [
] इति । तच्च (भा०) तदेवेत्येकान्तेन प्रतिपादयन्ती मिथ्यैव भारती ।
विध्येकान्ते प्रतिषेधैकान्ताभावस्येष्टस्यानभिधानात्, तदभिधाने वा विध्येकान्तप्रतिपादनविरोधात् । न च मृषावाक्यैस्तत्त्वार्थदेशना युक्तिमती । इति
(भा०) कथमनयार्थदेशनम्, इत्येकान्ते वाक्यार्थानुपपत्तिरालक्ष्यते । प्रतिषेधमुखेनैवार्थं वाक्यं नियमयतीत्येकान्तोऽपि न श्रेयानिति प्रतिपादयन्ति
वाक्यस्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कशः । आह च स्वार्थसामान्यं तादृग् वाच्यं खपुष्पवत् ॥१११॥
[वाक्यं प्रतिषेधमुखेनैव वस्तुतत्त्वं वक्तुं न शक्नोति ।] (भा०) वाचः स्वभावोऽयं येन स्वार्थसामान्यं प्रतिपादयन्ती तदपरं निराकरोति ।
न पुनस्तदप्रतिपादयन्ती, स्वार्थसामान्यप्रतिपादनतदन्यनिराकरणयोः
(भा०) अन्यतरापायेऽनुक्तानतिशायनात् । इदन्तया नेदन्तया वा न प्रतीयते तदर्थः कूर्मरोमादिवत् । न खलु सामान्यं विशेषपरिहारेण विशेषो वा
सामान्यपरिहारेण