________________
६९२
अष्टसहस्त्रीतात्पर्यविवरणम् __ (भा०) क्वचिदुपलभामहे । अनुपलभमानाश्च कथं स्वं परं वा तथाभिनिवेशेन विप्रलभामहे ।।
विध्येकान्तवदन्यापोहैकान्तस्य प्रागेव व्यासेन निरस्तत्वात् ॥१११॥ भूयोऽप्यन्यापोहवादिनमाशङ्क्य निराकुर्वतेसामान्यवाग् विशेषे चेत्, न शब्दार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ॥११२॥
[स्यात्कार एव सत्यलाञ्छनः सिद्ध्यति ।] (भा०) अस्तीति सत्सामान्यवान् । (भा० ) केवलमभावविच्छेदाद् विशेषम् ( भा०) अपोहमाहेति चेत्, कः पुनरपोहः ? किमन्यव्यावृत्तिरुत तथा विकल्प: ? (भा०) परतो व्यावृत्तिरभावो । अन्यापोह इष्यते इति चेत्
(भा०) कथमेवं सत्यभावं प्रतिपादयति ? भावं न प्रतिपादयतीत्यनुक्तसमं न स्यात् । तद्विकल्पो
अन्यापोहोऽस्तु
(भा०) मिथ्याभिनिवेशादिति चेत्, न चैतत्तस्य प्रतिपादकं मिथ्याविकल्पहेतुत्वाद्वयलीकवचनवत् ।
ततो नान्यापोह: शब्दार्थः सिद्ध्यति, येन तत्र प्रवर्तमानास्तीत्यादिसामान्यवाग् मृषैव न स्यात् । ततः स्यात्कारः सत्यलाञ्छनो मन्तव्यः स्वाभिप्रेतार्थविशषप्राप्तः । सवो हि प्रवर्तमानः कुतश्चिद्वचनात् क्वचित्स्वरूपादिना सन्तमभि