________________
द्वितीयो भागः [परि. १०-का० १०१]
६५१ सुनिश्चितासम्भवबाधकत्वात्, सम्भवबाधकस्य, संशयितासम्भवबाधकस्य, कदाचित्क्वचित्कस्यचिन्निश्चितासम्भवबाधकस्य च प्रमाणत्वायोगात्, प्रवृत्तिसामर्थ्यस्यार्थवत्क्रियाप्राप्तेरदुष्टकारणजन्यत्वस्य लोकसंमतत्वस्य च प्रमाणलक्षणस्य तत्त्वार्थश्लोकवातिके प्रपञ्चतोऽपास्तत्वात् । [यदि तत्त्वज्ञानं सर्वथा प्रमाणं भवेत्तर्हि अनेकान्ते विरोधो भविष्यतीति
कथने सति जैनाचार्याः समादधते ।] ननु च तत्त्वज्ञानस्य सर्वथा प्रमाणत्वसिद्धेरनेकान्तविरोध इति न मन्तव्यं,
(भा० ) बुद्धेरनेकान्तात्, येनाकारेण तत्त्वपरिच्छेदस्तदपेक्षया प्रामाण्यमिति
निरूपणात् ।
(भा०) तेन प्रत्यक्षतदाभासयोरपि प्रायशः सङ्कीर्णप्रामाण्येतरस्थितिरुन्नेतव्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभूताकारावभासनात्, तथोपहताक्षादेरपि सङ्ख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् ।
कथमेवं क्वचित्प्रमाणव्यपदेश एव क्वचिदप्रमाणव्यपदेश एवेति नियता लोकव्यवस्थितिरिति ? उच्यते ।
(भा० ) तत्प्रकर्षापेक्षया व्यवपदेशव्यवस्था गन्धद्रव्यादिवत् ।
यथा च प्रत्यक्षस्य संवादप्रकर्षात्प्रमाणव्यपदेशव्यवस्था प्रत्यक्षाभासस्य च विसंवादप्रकर्षादप्रमाणत्वव्यपदेशव्यवस्थितिः गन्धादिगुणप्रकर्षात्कस्तूरिकादेर्गन्धद्रव्यादिव्यपदेशव्यवस्था तद्व्यवहारिभिरभिधीयते ।
अष्टसहस्त्रीतात्पर्यविवरणम्
व्याप्त्यतिव्याप्त्यसम्भवदोषपरिहारः । भाष्ये बुद्धेरनेकान्तादिति बुद्धेः प्रामाण्यं प्रत्यनेकान्तादित्यर्थः । तदेव स्पष्टयति-येनाकारेणेति । प्रसिद्धेत्यादि तथा च प्रमाणेऽपि क्वचिद् भूतभासमानपर्यायावच्छेदेनाप्रमाजनकत्वरूपाप्रामाण्यस्याप्रमाणेऽपीदन्ताद्यवच्छेदेन धारावाहिफलमपेक्ष्य प्रामाण्यस्योभयत्र च स्वसंवेदनांशे समुच्चये अंशावलम्बित्वांशे च