________________
५२१
द्वितीयो भागः [परि० ३-का. ५९]
स्थितिः केवला नास्ति, विनाशोत्पादरहितत्वात् तद्वत् । विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात् तद्वदेव, इति योजनात् सामर्थ्यादुत्पादव्ययध्रौव्ययुक्तं सदिति प्रकाशितं भवति, तदन्यतमापाये सत्त्वानुपपत्तेः । प्रत्येकमुत्पादादीनां सत्त्वे त्रयात्मकत्वप्रसङ्गादनवस्थेत्यपि दूरीकृतमनेन, तेषां परस्परमनपेक्षाणामेकशः सत्त्वनिराकरणात् ॥५८॥ किञ्च
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥५९॥ (भा०) प्रतीतिभेदमित्थं समर्थयते । सकललौकिकजनस्याचार्याः स हि
(भा०) घटं भङ्क्त्वा मौलिनिर्वर्तने घटमौलिसुवर्णार्थी तन्नाशोत्पादस्थितिषु विषादह|दासीन्यस्थितिमयं जनः प्रतिपद्यते इति ।।
अष्टसहस्त्रीतात्पर्यविवरणम्
॥ स्याद्वादसिद्धिवादः ॥ उत्पादादीनां त्रयाणामेकर्मिण्येककालवृत्तित्वं व्यवस्थापयितुं युक्तिमाह-घटमौलीत्यादि पयोव्रत इत्यादिकारिकाद्वयेन, एकस्यैककालीनकार्यत्रयजनकत्वाद् व्रतत्रयव्यवस्थापकत्वाच्च त्रयात्मकत्वमित्येतदुभयसक्षेपार्थः । अत्रास्माभिः स्तम्भतीर्थनगरे गोपालसरस्वत्याद्येकान्तवादिपण्डितचक्रवालं प्रत्यवलम्बितं पत्रं, यथा
ऐन्द्री श्रीर्यत्पदाम्भोजसेवाहेवाकिताफलम् ।
महतां महनीयं तं महावीरमुपास्महे ॥ इह हि बहवः प्राणिनः साहजिकाभिसंस्कारिकानेकसङ्कल्पविकल्पकल्लोलाकुलितचेतस उत्पादव्ययध्रौव्यात्मकं सर्वं वस्त्वनुभवन्तोऽपि सम्यग्दर्शनजीवातुतथा विधक्षयोपशमाभावात्तथात्वेन न प्रतिपद्यन्ते, प्रत्युत परिज्ञातप्रवचनोपनिषदस्तथात्वेन प्रतिपद्यमानान् प्रति प्रत्यवतिष्ठन्ते, तान् प्रतीदमाचक्ष्महे । सर्वं खल्वादीपमाव्योमपदार्थजातं न सर्वथाऽनित्यं, नापि सर्वथा नित्यं, प्रदीपादेरपि सर्वथाऽनित्यत्वे पुद्गलपरमाणुत्वादिनाऽपि ध्वंसप्रसङ्गात् । अवयवावयविभावस्य समवायादिसम्बन्धनिबन्धनत्वे तत्रापि सम्बन्धान्तरान्वेषणेऽनवस्थानात्तादात्म्येनैव तत्त्वव्यवस्थितौ परमाणुपर्यन्तमपि कथञ्चिदवय