________________
४१९
द्वितीयो भागः [ परि०२-का. २४] क्रियादिकार्यस्य ब्रह्मणोऽनन्यत्वादद्वैतमेवेति चेत्, कथं स्वस्मादेव तस्य जन्म युज्यते ? कथं च कार्यादभिन्नस्य ब्रह्मणोऽकार्यत्वम् ? यतो नित्यत्वं स्यात् । परस्माज्जायते इति चेद्, द्वैतसिद्धिः, पुरुषात्परस्य क्रियाकारकभेदहेतोरभ्युपगमात् । परस्यानाद्यविद्यारूपत्वादकिञ्चिद्रूपस्य द्वितीयत्वायोगान्न द्वैतसिद्धिरिति चेत्, कथमकिञ्चिद्रूपस्य कारणत्वम् ? कार्यस्याप्यकिञ्चिद्रूपत्वाददोष इति चेत्, किमिदानीं खरविषाणादश्वविषाणस्य जन्मास्ति ? नेति चेत्, कथमविद्यात्मनः कारणादविद्यात्मककार्यस्योत्पत्तिः ? माहेन्द्रादिषु मायामयादेव पावकादेस्तथाविधधूमादिजन्मदर्शनाददोष इति चेत्, न तत्रापि पावकधूमाद्योः सर्वथा मायामयत्वासिद्धेः न हि तत्प्रतिभासयोर्मायारूपत्वं, स्वसंवेदनसिद्धत्वात् । नापि बहि: सद्रव्यादिरूपयोर्मायास्वभावत्वं, व्यभिचारित्वाभावात् । तद्विशेषाकारयोर्मायारूपत्वमिति चेत्, न तद्विविक्तवस्तुव्यतिरेकेण मायायाः सम्भवाभावात् । तथा क्रियाकारकभेदप्रपञ्चाचारविविक्तपरब्रह्मव्यतिरेकेणाविद्यायाः सम्भवाभावे कथं वेदान्तवादिनामविद्यातः कार्यस्याविद्यात्मनो जनने स्वस्मादेव स्वस्य जन्म न भवेत् ? तच्च प्रमाणविरुद्धं न शक्यं व्यवस्थापयितुं नैरात्म्यवत् । [क्रियाकारकादिभेदो न स्वतो जायते न परतः, किन्तु जायत एवेति मन्यमाने
दोषान् प्रदर्शयन्त्याचार्याः ।] क्रियाकारकभेदोऽयम्, (भा०) न स्वतो जायते परतो वा । अपि तु जायते एवेति
- अष्टसहस्रीतात्पर्यविवरणम् चाकार्यमित्येवमभेदेऽपि सुवर्णतद्विकारवत् कार्यकारणभाव इति शङ्कनीयम्, एवं सति भेदाभेदवादप्रसङ्गात्, कार्यदशायामपि तदभिन्नत्वे कूटस्थत्वव्याघाताच्च । तर्हि प्रपञ्चोऽविद्याजन्मास्तित्वत्याशक्य निषेधति-परस्मादित्यादिना । अकिञ्चिद्रूपस्येति अविद्याया असत्याया द्वितीयायाः कारणभूताया अभ्युपगमेऽपि सदद्वैताव्याकोपादित्यर्थः । माहेन्द्रादिष्विति 'उडीशादिग्रन्थप्रसिद्धेन्द्रजालादिकर्मस. तद्विशेषाकारयोरिति अतद्देशस्थयोरपि तद्देशत्वेन प्रतीयमानयोरित्यर्थः । तद्विविक्तेति अन्यदेशे तत्सत्त्वान्न सर्वथा मायामयत्वमिति
१. उड्डीशतन्त्रं रावणेश्वरसंवादरुपः तन्त्रशास्त्रीयग्रन्थः । तत्र दशमे पटले इन्द्रजालादिकर्मवर्णनम् ।