________________
४२०
अष्टसहस्त्रीतात्पर्यविवरणम्
सुषुप्तायते, प्रतिपत्त्युपायाभावात् ।
दृष्टेष्टविरोधप्रसङ्गात् । न हि किञ्चित्स्वस्मात् परस्माच्चाजायमानं जन्मवदेव दृष्टमिष्टं वा, येन तथा प्रतिपत्त्युपायरहितं ब्रुवाणः सुषुप्तमिवात्मानं नाचरेत् ।
(भा० ) तस्माद्यद् दृष्टविरुद्धं तन्न समञ्जसं यथा नैरात्म्यम् । विरुद्धयते च तथैवाद्वैतं क्रियाकारकभेदप्रत्यक्षादिभिः ।
एकस्मिन्नपि क्रियाकारकभेदप्रत्यक्षादेः सम्भवात् स्वप्नसंवेदनवत् कथमद्वैतं विरुद्धमिति चेत्, न स्वप्नसंवेदनस्याप्येकत्वे तद्विरोधस्य तदवस्थत्वात् । तत्रान्यदेव हि क्रियाविशेषसंवेदनं स्ववासनोत्थमन्यदेव च कारकविशेषसंवेदनं प्रत्यक्षमनुमानादि वा न पुनरेकमेव, तद्धेतुवासनाभेदाभावप्रसङ्गात्, जाग्रद्दशायामिव स्वप्नादिदशायामपि पुंसोऽनेकशक्त्यात्मकस्य क्रियाकारकविशेषप्रतिभासवैचित्र्यव्यवस्थितेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
भावः । प्रतिपत्त्युपायाभावादिति न चाकस्मादेवोत्पत्तेरयम् अदोषः, तत्पक्षस्य 'हेतुभूतिनिषेधो न इत्यादिना पञ्चभिर्विकल्पैरुदयनादिभिर्दुषितत्वात् । न च आनुपाख्यादुत्पत्तिपक्षोऽदूष्यः, तादृशादेवाविद्याविलासात् प्रपञ्चोत्पत्त्यभ्युपगमादिति वाच्यम्, अविद्यातत्कार्यस्यानुपाख्यत्वे तन्निवृत्तेरनात्मस्वरूपत्वेनानिर्मोक्षापातात्, अतिरिक्तायास्तस्यास्तत्सम्बन्धस्य चात्मन्यभ्युपगमे तु मुक्तावपि द्वैतप्रसङ्गादिति न किञ्चिदेतत् । एकस्मिन्नपीति यथैकस्मिन् स्वप्नज्ञाने गजतुरगादीनामनेकेषां प्रतिभासनं तथा परब्रह्मण्येकस्मिन् घटपटादिभेदानां भानमद्वैतपक्षेऽप्यविरुद्धमिति भावः । एकत्वे = सर्वथैकत्वे, तद्विरोधस्य = क्रियाकारक भेदप्रत्यक्षादिविरोधस्य । अनेकशक्त्यात्मकस्येति अन्यथा जाग्रत्स्वप्नविशेषस्य स्वप्नावान्तरविशेषस्य चानुपपत्तेरिति भावः । न च जाग्रत्स्वप्नारम्भकाज्ञानविशेषात् स्वप्नविशेषारम्भकतद्विशेषाच्च तदुपपत्तिर्मूलाज्ञाननिष्ठशक्तिविशेषाद्वेति वाच्यम्, तस्य कर्मतच्छक्त्यतिरिक्तत्वे मानाभावात्, तत्कार्यक्रियाकारकप्रतिभासभेदानामन्तःकरणधर्माणामात्मनि भानाभ्युपगमेऽन्यथाख्यात्यापत्तेः, आत्मनिष्ठानामनिर्वचनीयानां तेषामभ्युपगमेऽन्तःकरणात्माधारभेदेन सत्येतरविवेकस्य विना शपथं दुष्करत्वात्,
१. हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च ।
स्वभाववर्णना नैवमवधेर्नियत्वतः ॥ ( न्यायकुसुमाञ्जलि १५) ।