________________
द्वितीयो भागः [परि०२-का. २४]
४२१ [एकनिरंशात्मादौ कारकाद्यालम्बनं यथा तथैव एकस्मिन् ब्रह्मणि काराकाद्यालम्बने भवेत्
____ का बाधा ? इति प्रश्ने सति प्रत्युत्तरम् । ] कस्यचिदेकरूपस्यात्मगगनादेरप्यनेकान्तवादिनामनेकक्रियाकारकविशेषप्रतिभासालम्बनत्वसिद्धिविरुद्धमेतत्प्रत्यक्षादिभिरद्वैतम् । न हि करोति कुम्भं कुम्भकारो दण्डादिना, भुङ्क्ते पाणिनौदनमित्यादि प्रत्यक्षं भ्रान्तं येनाद्वैतस्य विरोधकं न स्यात् । सर्वत्र क्रियाकारकादिरूपं कथञ्चिद्भिन्नं, भिन्नप्रतिभासित्वान्यथानुपपत्तेरित्यनुमानं वा नानाजीवा इत्यादिप्रवचनं वा न विभ्रमाक्रान्तं येनाद्वैतं न विरुन्ध्यात् । स्यादाकूतं-'विवादापन्नं प्रत्यक्षादि मिथ्यैव, भेदप्रतिभासित्वात् स्वप्नप्रत्यक्षादिवत्' इति तदसत्, प्रकृतानुमाने पक्षहेतुदृष्टान्तभेदप्रतिभासस्यामिथ्यात्वे तेनैव हेतोर्व्यभिचारात् तन्मिथ्यात्वे तस्मादनुमानात्साध्याप्रसिद्धः । पराभ्युपगमात्पक्षादिभेदप्रतिभासस्यामिथ्यात्वे न दोष इति चेत्, न स्वपराभ्युपगमभेदप्रतिभासेन व्यभिचारात् । तस्यापि पराभ्युपगमान्तरादमिथ्यात्वाद्दोषाभावे स एव तद्भेदप्रतिभासेन व्यभिचार इति न क्वचिद्व्यवतिष्ठेत ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
विविधप्रतिभासादितन्निष्ठानन्तधर्मादिकल्पनायां महागौरवेणात्मनिष्ठानामेव ('तेषां परिणामानां) कल्पनौचित्यात्, आत्मनि कौटस्थ्यस्य ब्रह्माद्वैतस्य च विलूनशीर्णत्वादिति दिग् । अथ एकस्य निरंशस्यात्माकाशादेरनेककारकाद्यालम्बनत्वं यथा तथा ब्रह्मणोऽपि भविष्यतीति आशङ्कायाम् आह-कस्यचिदित्यादि । तथा चानेकान्तावलम्बनं विनात्माकाशादेरप्यनेककारकालम्बनत्वमयुक्तमिति न तदृष्टान्तेनाद्वैताविरोध इति सिद्धम् । क्रियाकारकभेदप्रतिभासस्य मिथ्यात्वात्तेन नाद्वैतधीविरोध इत्याशक्य निराकरोति-स्यादाकूतमित्यादिना । पराभ्युपगमादिति एवं हि तत्र प्रातिभासिकममिथ्यात्वं सिद्धं, साध्यते च पारमार्थिकं मिथ्यात्वमिति न व्यभिचार इत्यर्थः । स एवेति विशेषेऽनुगमाभावेन सामान्यत एव मिथ्यात्वस्य साध्यत्वादिति भावः । न च तत्त्वज्ञाननाश्यतावच्छेदको धर्मः परमार्थतो मिथ्यात्वमद्वैतसिद्धेः पूर्वं सिद्ध इति तत्साध्यत्वप्रत्याशापि दत्तपदेति स्मर्त्तव्यम् । अद्वैतधीरेव महावाक्यजनितत्वेन निश्चितप्रामाण्यत्वात् क्रियाकारकभेदप्रतिभासविरोधिनी, न तु स
१. अत्र आवलिकयां लिखितः पाठो भ्रष्ट इव प्रतिभाति ।
स च कल्पयित्वा पूरितः कोष्ठके न्यस्तः - सं०