________________
४२२
अष्टसहस्त्रीतात्पर्यविवरणम् कश्चिदाह 'ब्रह्माद्वैतस्य संविन्मात्रस्य स्वत:सिद्धस्य क्रियाकारकभेदप्रत्यक्षादीनां बाधकस्य भावात्तेषां भ्रान्तत्वम्, ततो न तद्विरोधकत्वम्' इति तदपि न साधीयः, तथा सति बाध्यबाधकयोर्भेदात् द्वैतसिद्धिप्रसङ्गात् । न च परोपगममात्रात्तयोर्बाध्यबाधकभावः, परमार्थतस्तदभावापत्तेः प्रतिभासमात्रवत्प्रतिभासमात्रविशेषस्यापि सत्यत्वसिद्धरनेकान्तव्यवस्थानात् । तदेकान्ततः पुरुषाद्वैतं प्रत्यक्षादिविरुद्धमेव ॥२४॥ तथास्मिन्नद्वैतैकान्ते दूषणान्तरमुपदर्शयन्तः प्राहु:
कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा ॥२५॥
लौकिकं वैदिकं च कर्मेति वा कुशलमकुशलं च कर्मानुष्ठानमिति वा पुण्यं पापं च कर्मेति वा कर्मद्वैतं न स्यात् । तदभावादिहामुत्र च श्रेयःप्रत्यवायलक्षणं फलद्वैतं न स्यात्, कारणाभावे कार्यस्यानुत्पत्तेः । तत एवेहलोकपरलोकलक्षणं लोकद्वैतं न स्यात् । कर्मादिद्वैतस्यानाद्यविद्योपदर्शितत्वाददोष इति चेत्, न धर्माधर्मद्वैतस्याभावे विद्याविद्याद्वयस्यासम्भवाद् बन्धमोक्षद्वयवत् । पूर्वाविद्योदयादेव विद्याविद्याद्वयं बन्धमोक्षद्वयं च, परमार्थतस्तदसम्भवात् न बन्धोऽस्ति न वै मोक्ष इत्येषा परमार्थता इति प्रवचनात् [
] प्रतिभासमात्रस्य परब्रह्मण एव - अष्टसहस्रीतात्पर्यविवरणम्
तद्विरोधी, सन्दिग्धप्रामाण्यकत्वेन दुर्बलत्वादिति कस्यचिन्मतमुत्थापयति-कश्चिदाहेत्यादिना । तथापि बाध्यबाधकबलादेव द्वैतसिद्धिः स्यादिति समाधत्ते-तदपि न साधीय इत्यादिना एतेन आत्मविषयकापरोक्षभ्रमनिवर्तकत्वेनात्माद्वैतापरोक्षज्ञानमेव बलवत, तच्च सकलभेदप्रपञ्चनाशकमिति तत्सिद्धौ द्वैतबाध इत्यपि अपास्तम् । आत्मसाक्षात्कारेण देहादावात्माभेदभ्रमनिरासे तद्भेदस्यैव परमार्थतः सिद्धेः । निर्विकल्पकस्य भ्रमाविरोधित्वेन सविकल्पात्मसाक्षात्काराश्रयणे ब्रह्मणो निर्द्धर्मकत्वव्याघाताच्च । किञ्च महावाक्यजन्यापरोक्षवृत्तिविषयतैव ब्रह्मणो दुर्घटा निर्द्धर्मकत्वहानेरिति कथं तदद्वैतधियो बलवत्त्वम् ? । एतेन मिथ्याज्ञानवासनानाशकत्वं तत्त्वज्ञानस्य वैजात्येनैव, न तु तत्र समानप्रकारकत्वमपि तन्त्रमित्युक्तावपि न क्षतिः इति दिग् ॥२४॥