________________
द्वितीयो भागः [ परि०२-का. २५]
४२३ तात्त्विकत्वादिति चेत्, न नैरात्म्यस्यापि तात्त्विकत्वापत्तेस्तत्कल्पनाया नैष्फल्यस्याविशेषात् । सर्वो हि,
(भा० ) प्रमाणप्रत्यनीकं स्वमनीषिकाभिरद्वैतमन्यद्वा किञ्चित्फलमुद्दिश्यारचयेत्, अन्यथा तत्प्रति प्रवर्तनायोगात्प्रेक्षावृत्तेः । तथाहिपुण्यपापसुखदुःखेहपरलोकविद्येतरबन्धमोक्षविशेषरहितं प्रेक्षापूर्वकारिभिरनाश्रयणीयम् । यथा नैरात्म्यदर्शनम् । तथा च प्रस्तुतम् ।
तस्मात्प्रेक्षापूर्वकारिभिरनाश्रयणीयम् इति न तज्जिज्ञासापि श्रेयसी ।
अष्टसहस्रीतात्पर्यविवरणम्
नैरात्म्यस्यापीति बौद्धदृष्ट्या तत्रापि स्वागमजन्यतत्त्वज्ञानविषयत्वाविशेषात्, नैष्फल्याविशेषादिति व्यवहारबाधदूषणस्य भूषणताया उभयमतेऽपि सुवचत्वादिति तात्पर्यम् । यथा नैरात्म्यदर्शनमिति न च प्रमाणगवेषणया प्रतिभासस्यावश्योपस्थितत्वात्तद्भेदस्योपाधिभिरेवोपपत्तेस्तस्य प्रागभावध्वंसप्रतियोगित्वकल्पने गौरवान्नित्यचिदात्मसिद्धिरेव नैरात्म्यसिद्धिमुपहन्तुं प्रगल्भत इति मधुसूदनसरस्वत्युक्तमपि क्षोदक्षमम्, प्रामाणिकस्य प्रतिभासस्य ध्वंसप्रागभावाप्रतियोगित्वकल्पनापेक्षया तत्प्रतियोगिताकल्पन एव लाघवात्, अज्ञातासत्त्वस्वीकारे गृहाद् बहिर्निर्गतस्य पुत्राद्यभावशङ्कयोर:शिरस्ताडनादिप्रसङ्गस्य च नैरात्म्यवादे बौद्धस्येव दृष्टिसृष्टिवादे वेदान्तिनोऽपि वज्रलेपत्वात् । वस्तुतः स्वाप्निकदण्डघटादिकार्यकारणभावतुल्यत्वात् यागस्वर्गादिकार्यकारणभावानां वैदिककर्ममात्रेऽनाश्वासाद्वेदान्तधर्मश्रद्धावतां न कदापि स्वोरस्ताडनाद्विरतिः । अथ इदृग् दूषणास्पदं दृष्टिसृष्टिवादं त्यक्त्वा व्यवहारवादं स्वीकुर्वन् वेदान्ती निर्दोषो भविष्यतीति चेत्, मैवम्, अव्यवहारिणस्तस्य केनापि व्यवहारिपङ्क्तावप्रवेशनात् । (शङ्का) भाट्टस्तत्र तं प्रवेशिष्यतीति चेत्, न, कर्मविधिशेषत्वाद्वेदान्तानामप्रामाण्यं वदता तेन तस्य दूरत एव वर्जनात् । आश्रयतां वा भाट्टमतं बलाद् व्यवहारवादे वेदान्ती, तथापि स्वर्गनरकादेर्व्यावहारिकपदार्थस्याविद्याजन्यस्योपगमे एकस्याविद्यानाशे स्वर्गनरकाधुच्छेदान्निर्दुःखसुखं जगत् स्यात्, तत्तदविद्याजन्यतत्तत्स्वर्गनरकाद्यभ्युपगमे चापेक्षिकत्वेन तस्य प्रातिभासिकत्वमागतं, न व्यावहारिकत्वम् । (शङ्का) मूलाज्ञानजन्ययावत्पदार्थनाशः सर्वमुक्तावेव, तद्विलासजन्यस्त्वन्यदापीत्यदोष इत्यपि न क्षोदक्षमम्, एवं सत्यध्यारोपबाधक्रमेण प्रतिपुरुषं मोक्षोपायनानात्वेन प्रतिपुरुषं जगत्सृष्टिभेदापत्तेरसमाधानात्, कथं चावस्थितव्यावहारिकपदार्थाभ्युपगमे तं पारमार्थिकत्वेन पश्यतां योगिनां नात्यन्तभ्रान्तत्वम् ? । (शङ्का) योगिनः