________________
४१८
अष्टसहस्त्रीतात्पर्यविवरणम्
[अद्वैतवादी स्वस्य पूर्वपक्षं स्थापयति] नन्विदमयुक्तमेव संलक्ष्यते 'अद्वैतं ौकात्म्यं, द्वाभ्यामितं द्वीतं, द्वीतमेव द्वैतं, न द्वैतमद्वैतमिति व्याख्यानात्, तस्यैकान्तस्तदेवेत्यभिनिवेशः । तस्य पक्षः प्रतिज्ञाभ्युपगममात्रम् । तस्मिन्नपि दृष्टः साक्षात्कृतोऽनुमितश्च कारकाणां कादीनां क्रियायाश्च स्थानगमनादिरूपाया निष्परिस्पन्दस्वभावायाः परिस्पन्दरूपायाश्च भेदः प्रत्यक्षेणानुमानेन च विरुद्ध्यते, तदभ्युपगममात्रस्य प्रत्यक्षादिप्रमाणसिद्धक्रियाकारकभेदप्रतिरोधित्वासम्भवात् क्षणिकत्वाभ्युपगमवदिति तात्पर्यव्याख्यानम् अकलङ्कदेवानाम् ।
न हि कारकभेदः प्रत्यक्षादिनाद्वैतेऽपि विरुद्ध्यते, पादपस्यैकस्य युगपत्क्रमेण वा कर्नाद्यनेककारकात्मकत्वप्रतीते: ? क्रियानानात्वमप्येकस्य तथैव न प्रतिषिध्यते, देशाद्यपेक्षया गमनागमनयोः स्थानशयनयोर्वा सकृदपि निश्चयात् । तद्वदेकमपि परब्रह्म सकलक्रियाकारकभेदात्मकतया न विरोधमध्यास्ते तथा प्रतिभासवैचित्र्येऽप्येकत्वाव्याघाताच्चित्रज्ञानवदित्यपरः ।
[जैनाचार्या अद्वैतपक्षं निराकुर्वन्ति] सोऽप्येवं प्रष्टव्यः-क्रियाकारकभेदप्रपञ्चः किमजन्मा जन्मवान्वा ? न तावदजन्मा, कादाचित्कत्वात्, यस्त्वजन्मा स न कादाचित्को यथात्मा, कादाचित्कश्चायं, तस्मान्नाजन्मेति बाधकसद्भावात् । जन्मवांश्चेत्कुतो जायते ? इति वक्तव्यम् ? परमपुरुषादेवेति चेत्, कथमद्वैतसिद्धिः ? कारणकार्ययोद्वैतप्रसिद्धः ।
- अष्टसहस्त्रीतात्पर्यविवरणम् पक्षेऽपीत्यादिना । नन्विदमित्यादिः भाष्यतात्पर्यार्थो वृत्तिकृतैव प्रकाश्यते, तेन ननुः अक्षमार्थो, न तु पूर्वपक्षार्थः, तदुपमर्दाभावादिति मन्तव्यम् । इदम् =अद्वैतेकान्तवाद्युक्तम्, तस्मिन्नपि व्याख्याताद्वैतस्वीकारेऽपि क्रियाकारकभेदप्रतिभासो बाधितो भविष्यतीत्यत आहतदभ्युपगममात्रस्येति अद्वैताभ्युपगममात्रान्न तद्बाधोऽन्यच्च बाधकं न पश्याम इत्यबाधितक्रियाकारकभेदप्रतिभासादद्वैतपक्षो मिथ्यैवेति भावः । पारमार्थिकेऽद्वैते औपाधिक: क्रियाकारकसम्बन्धभेदो न विरोधमावहतीत्याशङ्कते-न हीत्यादिना । अपरो= अद्वैतवादी । परमार्थतो भेदाभावे प्रपञ्चब्रह्मणोः कार्यकारणभावो दुर्घट इति वक्तुमुपक्रमते-सोऽप्येवं प्रष्टव्य इत्यादिना । कथञ्चेति न च कार्यं ब्रह्मैव ब्रह्म च कार्यदशायां कार्यमन्यदा