________________
॥ द्वितीयः परिच्छेदः ॥
अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥२४॥
श्रोतव्याष्टसहस्री श्रुतैः किमन्यैः सहस्रसङ्ख्यानैः ।
विज्ञायते ययैव स्वसमयपरसमयसद्भावः ॥ (भा०) सदायेकान्तेषु दोषोद्भावनमभिहितमाचार्यैः । केवलमद्वैतैकान्ताभ्युपगमान्न तावतानेकान्तसिद्धिरिति चेत्, न प्रत्यक्षादिविरोधात् । न हि कस्यचिदभ्युपगममात्रं प्रमाणसिद्धं क्रियाकारकभेदं प्रतिरुणद्धि क्षणिकाभ्युपगमवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् षट्तर्काम्बुधिसम्प्लवव्यसनितां व्यालोडनं दिक्पटग्रन्थानां सितवाससां च समये निःशङ्कसङ्क्रीडनम् । जानन्तु प्रतिवादिनः सहृदयाश्चानन्दिनः सन्त्वितः, सम्भाव्येति कृतो विनोदरसिकैरस्माभिरेषः श्रमः ॥२॥ (शार्दूल०) यत्तीर्थे विमले क्रियोज्ज्वलगुणैः संसेविते साधुभिः, गच्छ: स्वच्छतरस्तपाह्वय इह प्राप्तः प्रसिद्धि पराम् । सामाचार्यपि चारुतामचकलत्तत्रैव मैत्रीगृहं, तं श्रीवीरजिनेन्द्रमप्रतिहतानन्दाय वन्दामहे ॥१॥ [शार्दूल०] सन्नयोत्प्रेक्षयाऽकम्प्रसम्प्रदायाश्रयान्मम ॥
व्याख्यातुर्जेनतन्त्राणां विलं हरतु भारती ॥२॥ अद्वैतैकान्तनिरासपूर्वकमेकत्वपृथक्त्वसप्तभङ्गीसाधनायोपक्रमते-अद्वैतैकान्त