________________
द्वितीयो भागः [ परि० ३-का० ५७]
५१५ प्रतिपादनात्, तथैव उत्पादव्ययध्रौव्ययुक्तं सत् इति सूत्रकारवचनात् तत्त्वा० ५.३० ] । न चेदं युक्तिरहितं, तथा युक्तिसद्भावात् ।
[प्रत्येकं वस्तु चलाचलस्वरूपमित्यस्य समर्थनम् ।] (भा०) चलाचलात्मकं वस्तु कृतकाकृतकात्मकत्वादिति ।
न चात्र हेतुरसिद्धः, पूर्वरूपत्यागाविनाभाविपररूपोत्पादस्यापेक्षितपरव्यापारत्वेन कृतकत्वसिद्धः, सदा स्थास्नुस्वभावस्यानपेक्षितपरव्यापारत्वेनाकृतकत्वनिश्चयात् ।
(भा०) न हि चेतनस्यान्यस्य वा सर्वथोत्पत्तिः, सदादिसामान्यस्वभावेन सत एवातिशयान्तरोपलम्भाद् घटवत् कथञ्चिदुत्पादविगमात्मकत्वादित्यादि योज्यम् ।
नापि विनाश एव, तत एव तद्वत् । न च स्थितिरेव, विशेषाकारेणोत्पादविनाशवत एव सदादिसामान्येन स्थित्युपलम्भाद् द्रव्यघटवत् । इति हि पृथगुपपत्तिर्योज्यते । सदादिसामान्येन सतस्तन्त्वादेर्घटाकारातिशयान्तरोपलम्भप्रसङ्ग इति चेत्, न, स्वभावग्रहणात् । सदादिसामान्यं हि यत्स्वभावभूतं घटस्योपादानद्रव्यमसाधारणं तद्भावेन परिणमदुपलभ्यते । तेनैव सतोऽतिशयान्तराधानं घटो यथा प्रतिविशिष्टघटयोग्यमृद्रव्यादिस्वरूपेण, न पुनः साधारणेन तन्त्वादिगतसामान्येन,
अष्टसहस्त्रीतात्पर्यविवरणम्
चलनाभावादिति चलितप्रतिपत्तेरेव संशयलक्षणत्वात्, चलितत्वं चैकधर्मिकविरुद्धनानाकोटिकज्ञानत्वमिति विरोधाभावे ज्ञाने तदसिद्धेरिति भावः ॥५६॥
भाष्ये चलाचलात्मकमिति उत्पादव्ययात्मना चलात्मकं ध्रौव्यात्मना चाऽचलात्मकमित्यर्थः । घटयोग्यमृद्रव्यादिस्वरूपेणेति, तच्च स्वरूपं घटोपादानकारणतावच्छेदको घटसामग्रीनाश्यतावच्छेदकश्च धर्मविशेषः तदुभयैक्यकल्पनायां लाघवात्, एतेन कपालत्वादिना घटाधुपादानकारणत्वं नैयायिकाद्यभिमतं अपास्तम् कपालादिनाशे घटादिसामग्र्या अहेतुत्वात्, एकस्मादेव मृत्पिण्डाच्चक्रादिव्यापारेण घटोत्पत्तिदर्शनात्, सङ्घातभेदाभ्यां घटादेव घटान्तरोत्पत्तेश्च, कपालत्वघटत्वादिना हेतुत्वे मानाभावाच्च । न पुनः साधारणेनेति व्याप्यधर्मावच्छिन्नेन व्यापकधर्मावच्छिन्नस्यान्यथासिद्धिनिरूपणादित्यर्थः ।