________________
५१६
अष्टसहस्त्रीतात्पर्यविवरणम् नापि साधारणासाधारणेन पार्थिवत्वादिसामान्येनाविशिष्टघटोपादानमृदादिसामान्येन वा प्राक्सतोऽतिशयान्तरोपलब्धिर्येन तन्त्वादेरपि घटपरिणतिप्रसङ्गः । नापि घटविनाशोत्तरकालमप्यसाधारणमृदादिसामान्यस्वभावेन सत्त्वाविशेषाद् घटोत्पत्तिः प्रसज्यते, तत्प्रागभावात्मकस्य सतस्तद्भावेनोत्पत्तिदर्शनात्, पश्चादभावात्मकस्य सतोऽपि तददर्शनात् । न चैवं प्रागसत एवोत्पत्तिनियमाद् घटस्य कथञ्चित्प्रागसत्त्वमयुक्तं, प्रागभावस्य भावस्वभावस्य पूर्वं व्यवस्थापनात् । तस्याभावस्वभावत्वे सव्येतरगोविषाणादीनां सहोत्पत्तिनियमवतामुपादानसङ्करप्रसङ्गः, प्रागभावाविशेषात् । ततो यथा स्वोपादानात्सव्यविषाणस्योत्पत्तिस्तथा दक्षिणविषाणोपादानादपि तत्र तस्योत्पत्तेः प्रागभावसिद्धेः, यत्र यदा यस्य प्रागभावस्तत्र तदा तस्योत्पत्तिरिति नियमकल्पनाया अपि तत्र भावात् । स्वोपादानेतरनियमश्च कुतः स्यात् ? प्रागभावनियमादिति चेत्समानसमयजन्मनां स एव कुतः ? तदुत्पत्तिनियमादिति चेत्, सोऽपि कुतः ? स्वोपादाननियमादिति चेत्, स्वोपादानेतरनियमः कुतः स्यात् ? इत्यादि पुनरावर्तते इति चक्रकम् । सव्यविषाणस्योत्पत्तिरिति प्रत्ययविशेषादुत्पत्तिनियमोऽपि न श्रेयान्, कारकपक्षस्य विचारयितुमारब्धत्वात् । ज्ञापकपक्षे तु प्रागभावनियमोऽपि तत्प्रत्ययविशेषादेवेति नोत्पत्त्या प्रागभावावगतिः, प्रागभावादप्युत्पत्तिनियमनिश्चयप्रसक्तेरितरेतराश्रयस्य दुर्निवारत्वात् । ततो नोत्पत्तेः प्रागभावः कार्यस्याभावात्मकस्तस्य भावस्वभावस्यैवाबाधितप्रतीतिविषयत्वात् । प्रागभावाभावस्य कार्योत्पादरूपत्वात् ॥५७॥ तथा हि
कार्योत्पादः क्षयो हेतोर्नियमाल्लक्षणात्पृथक् । न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥५८॥
- अष्टसहस्रीतात्पर्यविवरणम् प्रागभावसिद्धिरिति' तत्तद्व्यक्त्युपादानरूपप्रागभावसिद्धिरित्यर्थः । तत्र भावादिति कार्यभेदप्रयोजकभेदप्रतियोग्युपादानात्मकप्रागभावविश्रान्तत्वादिति भावः । प्रतियोगिभेदेनाभावभेदे त्वङ्गीक्रियमाणे एकप्रतियोगिकाभावचतुष्टयस्यैक्यापतिः, तत्तत्कालसंसर्गावच्छिन्नप्रतियोगित्वादिनाऽभावाभ्युपगमे तु तत्तदाधेयत्वादिना घटसत्त्वादेरपि भेदापत्तिरित्याधुक्तं कार्यद्रव्यमनादि स्याद् इत्यादिकारिकाव्याख्याने प्रथमपरिच्छेद एव ॥५७||
१. सिद्धेः इति अष्टसहस्रीसम्मतः पाठः ।