________________
५१७
द्वितीयो भागः [ परि०३-का० ५८]
__उपादानस्य पूर्वाकारेण क्षयः कार्योत्पाद एव हेतोनियमात् । यस्तु ततोऽन्यस्तस्य न हेतोर्नियमो दृष्टो यथानुपादानक्षयस्यानुपादेयोत्पादस्य च । नियमश्च हेतोरुपादानक्षयस्योपादेयोत्पादस्य च । तस्मादुपादानक्षय एवोपादेयोत्पादः । न तावदत्रासिद्धो हेतुः कार्यकारणजन्मविनाशयोरेकहेतुकत्वनियमस्य सुप्रतीतत्वात्, तयोरन्यतरस्यैव सहेतुकत्वाहेतुकत्वनियमवचनस्य निरस्तत्वात् ।
[यौगोऽपि उत्पादविनाशौ एकहेतुकौ न मन्यते तस्य निराकरणम्] ननूपादानघटविनाशस्य बलवत्पुरुषप्रेरितमुद्गराधभिघातादवयवक्रियोत्पत्तेरवयवविभागात्संयोगविनाशादेव प्रतीतेरुपादेयकपालोत्पादस्य तु स्वारम्भकावयवकर्मसंयोगविशेषादेरेव सम्प्रत्ययात् तयोरेकस्माद्धे तोनियमासम्भवादसिद्धमेव साधनमिति चेत्, न अस्य विनाशोत्पादकारणप्रक्रियोद्घोषणस्याप्रातीतिकत्वाद् बलवत्पुरुषप्रेरितमुद्गरादिव्यापारादेव घटविनाशकपालोत्पादयोरवलोकनात् । ततो घटावयवेषु कपालेषु क्रियैवोत्पद्यते इति चेत्, सैवैको हेतुस्तयोरस्तु । क्रियातोऽवयवविभागस्यैवोत्पत्तिरिति चेत्, स एवैकं कारणमनयोरस्तु । विभागात्तदवयवसंयोगविनाश एव दृश्यते इति चेत्, स एव तयोरेकं निमित्तमस्तु । तदवयवसंयोगविनाशादवयविनो घटस्य विनाश इति चेत्, स एव कपालानां तदवयवानां प्रादुर्भावः, इति कथं नैकहेतुनियमः सिद्धयेत् ? महास्कन्धावयवसंयोगविनाशादपि लघुस्कन्धोत्पत्तिदर्शनात् भेदसङ्घातेभ्य उत्पद्यन्ते इति वचनात् [तत्त्वा० ५.२६] ।
मिथ्यैवेदं दर्शनं सूत्रकारवचनं च बाधकसद्भावादिति चेत्, किं तद्बाधकम् ? स्वपरिमाणादणुपरिमाणकारणारब्धानि कपालानि कार्यत्वात्पटवदित्यनुमानं
- अष्टसहस्त्रीतात्पर्यविवरणम्
यस्तु ततोऽन्य इति यस्तु तत उपादानक्षयादन्यक्षयस्तस्य नोपादेयोत्पादहेत्वन्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकप्रतियोगित्वमित्यर्थः । भेदसङ्घातेभ्य इति अत्रास्मदीयाः श्लोकाः
संयोगाच्च विभागाच्च द्रव्यमुत्पद्यते द्वयात् । वैजात्यं वापि वैशिष्ट्यं कार्ये तत्र प्रकल्प्यते ॥१॥