________________
५१८
अष्टसहस्त्रीतात्पर्यविवरणम् बाधकमिति चेत्, न एतदुदाहरणस्य साध्यविकलत्वात् । तन्तवो हि किमपटाकारपरिणताः पटस्य समवायिनः पटाकारपरिणता वा ? न तावदाद्यः पक्षः पटाकारापरिणतेषु तन्तुष्विह पट इति प्रत्ययासम्भवात् । द्वितीयपक्षे तु न पटपरिमाणादणुपरिमाणास्तन्तवः पटस्य कारणं, तेषां पटसमानपरिमाणतया प्रतीतेः समुदितानामेवातानवितानाकाराणां पटपरिणामाश्रयत्वादन्यथातिप्रसङ्गात् । न हि तथापरिणतं तद्भवति तद्भावः परिणामः इति वचनात् [तत्त्वा० ५.४१] । न चैवं परिणामपरिणामिनोरभेदः स्यात्, प्रत्ययभेदात्कथञ्चिद् भेदसिद्धेः परस्यापि तद्भेदे विवादाभावात, तन्तद्रव्यपटपर्याययोरन्वयव्यतिरेकप्रत्ययविषयत्वाच्च । तन्तद्रव्यं हि प्राच्यापटाकारपरित्यागेन तन्तुत्वापरित्यागेन चापूर्वपटाकारतया परिणमदुपलभ्यते
- अष्टसहस्त्रीतात्पर्यविवरणम्
अणुव्यणुकसंयोगा अणुकोत्पत्तिमिच्छताम् । तद्विभागादणूत्पत्तौ प्रद्वेषः किंनिबन्धनः ॥२॥ केयूरकुण्डलीभावे तत्र स्वर्णवदिष्यताम् । साधारणमुपादानं क्ष्मादि किं चिन्तयाऽत्र नः ॥३॥ तादात्म्यनियताधाराधेयभावनिबन्धनम् । कारणं प्रत्युपादेयं विभिन्नं परिणामि वा ॥४॥ तावत् सङ्घातभेदा वा हेतुस्तच्छालि वस्तु वा । गच्छत्यविनिगम्यत्वमप्यत्रैतत् सहायताम् ॥५॥ जात्यन्तरात्मके वस्तुन्येवं किञ्चिन्न दुष्यति । कार्याकार्यभिदाभेदव्यवसायव्यवस्थितेः ॥६॥ संयोगवद्विभागेऽपि वैजात्यस्य व्यवस्थितौ । एकस्य हेतुताऽन्यस्य नेति मोहविजृम्भितम् ॥७॥ संयोगे समवायश्चेद्धेतुताया नियामकः । मृद्रव्ये सविभागे स्तादंशांशो वा विभज्यताम् ॥८॥ स्वध्वंसत्वेन योगेनोपादानं हेतुरस्तु वा ।। तद्र्व्यव्याप्तिरत्र स्यान्नभोव्याप्तिवदार्थिकी ॥९॥ संयोगजन्यता जन्यद्रव्ये हि भवतोच्यते । मया तत्र विजातीय इति गौरवभी: कुतः ? ॥१०॥