________________
४३६
अष्टसहस्त्रीतात्पर्यविवरणम् न भवेत् । तदेतेन शब्दाद्वैतमपि निरस्तं, विज्ञानाद्यद्वैतवत्तस्यापि निगदितदोषविषयत्वसिद्धेः प्रक्रियामात्रभेदात्, तद्व्यवस्थानुपपत्तेः, स्वपक्षेतरसाधकबाधकप्रमाणाभावाविशेषात् स्वतः सिद्ध्ययोगाद् गत्यन्तराभावाच्च । इत्यलमतिप्रसङ्गिन्या सङ्कथया, सर्वथैवाद्वैतस्य निराकरणात् ॥२७॥
(भा० ) इष्टमद्वैतैकान्तापवारणं, पृथक्त्वैकान्ताङ्गीकरणादिति माऽवदीधरत् । यस्मात्
पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक् तु तौ ।
पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥२८॥
पृथगेव द्रव्यादिपदार्थाः प्रमाणादिपदार्थाश्च, पृथक्प्रत्ययविषयत्वात् सह्यविन्ध्यवदित्येकान्तः पृथक्त्वैकान्तः, सजातीयविजातीयव्यावृत्ता निरन्वयविनश्वरा बहिरन्तश्च परमाणवः इत्यभिनिवेशश्च ।
[वैशेषिकनैयायिकाभ्यां स्वीकृतं भेदपक्षं निराकुर्वन्ति जैनाचार्याः ।] तत्र येषां पृथक्त्वगुणयोगात् पृथक् पदार्था इत्याग्रहस्ते एवं तावत्प्रष्टव्याः । किं पृथग्भूतपदार्थेभ्यः पृथक्त्वं गुणः पृथग्भूतोऽपृथग्भूतो वा ? न तावदुत्तरः पक्षो गुणगुणिनोर्भेदोपगमात् । नापि प्रथमः
(भा०) पृथग्भूतपदार्थेभ्यः पृथक्त्वस्य पृथग्भावे तेषामपृथक्त्व
अष्टसहस्रीतात्पर्यविवरणम्
यत्खण्डनं मण्डनहेतुरस्मन्मते रते तद्दशनक्षताभम् । वेदान्तवादेऽथ च शून्यवादे दंशः श्वदन्तस्य विडम्बनं तत् ॥
रतोत्सवः स्यात्परसङ्कथानां स्याद्वादयूनः किल वल्गनेन । यत्ता: सहन्ते रतियुद्धमेतन्न मल्लयुद्धं परतीथिकानाम् ॥
ब्रह्माद्वैतदूषणं शब्दाद्वैतेऽप्यतिदिशति-तदेतेनेत्यादि ॥२७॥