SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भागः [ परि. २-का. २७] ४३५ काचिदविद्या नाम यदभ्युपगमे ब्रह्माद्वैतं न विरुद्धयेत, द्वैतप्रतिषेधो वाद्वैताविनाभावी - अष्टसहस्त्रीतात्पर्यविवरणम् धिकारिहारयात, यश्च दिन्ति, सविषयमपि वा बाध्यमानविषयम् । तत्र प्रथमः सर्वतो विरोधादनुत्तरः, द्वितीयः सुषुप्त्यवस्थानुरोधादुपेक्षणीयः, तृतीयोऽपि विरोधादेव हेयः, चतुर्थस्तु भेदोल्लेखादेव त्याज्यः पञ्चमपक्षचिन्तायां तु निरपेक्षस्वरूपादित्रयबाधेऽपि जात्यन्तरात्मकस्य भेदस्य किमेताभिर्व्यधिकरणानुपपत्तिभिर्बाधनीयम् ? । हन्त एवं धर्म्यभिन्नधर्मान्तरमेव भेदः इत्यागतं तथा चानवस्थेति चेत्, तीनवस्थाभिया तदधिकप्रवाहस्त्यज्यताम्, तस्य तु कुतस्त्यागः ? न ह्यनवस्था प्रतिभासमानमर्थं निवर्तयति, किन्तु प्रवाहं परिहारयति, गन्धे गन्धान्तरवत् । ये अत्यन्ताभावात्यन्ताभावः प्रतियोग्येव तदत्यन्ताभावस्तु प्रथमः तुरीयश्च द्वितीय एवेति नानवस्था, भेदतद्भेदादिस्त्वधिक एव तत्रानवस्थाप्रमाणसिद्धत्वान्न दोष इति वदन्ति, तन्मतेऽप्याकाङ्क्षाक्रमवशात् प्रतीतिपर्यवसानेन न दोषः । स्वरूपभेदपक्षेऽपि भिन्नत्वेन ज्ञानाभावान्नाभेदभ्रमानुपपत्तिः, तत्तत्प्रतियोगिकत्वतत्तदधिकरणकत्वेन भेदज्ञाने च क्षयोपशमविशेषस्यैव हेतुत्वान्नातिप्रसङ्गोऽर्थित्वादिविशेषस्यापि तदाधान एवोपक्षयात्, तुल्ययोगक्षेमं चैतत्तद्विशेषणविशिष्टभावप्रत्यक्षेणापि, न ह्युपस्थितानामेव विशेषणानां भावबुद्धौ वैशिष्ट्यग्रह इति नियमः, अनुपस्थितानामपि पर्यायाणां द्रव्यग्रहकाले ग्रहस्य तुल्यवित्तिवेद्यत्वन्यायसिद्धत्वात्, उपस्थितानामप्यनपेक्षितानां विशिष्टबुद्धावनारोहाच्च । किञ्च, भेदे प्रतिक्षिप्तेऽभेदः सुतरां प्रतिक्षिप्तः स्यात्, भेदाभावरूपस्याभेदस्य भेदनिरूपणं विना दुर्निरूपत्वात्, इत्थं च भेदेनेवाभेदेनापि ब्रह्मणो दुर्जेयत्वात्तस्यानिर्वचनीयत्वं शून्यत्वं वा स्यादिति गतं वेदान्तिनां क्लीवा(बा)नामधिष्ठानसत्तयाऽपि । (शङ्का) पार्यन्तिकाभेदभाने विकल्पाभावान्नानुपपत्तिरिति चेत्, पार्यन्तिकभेदभानेऽपि तत एव सा मा भूत्, विचारसाध्यनिर्विकल्पकत्वस्योभयत्र साम्यात् । (शङ्का) अभेदो न भेदाभावः किन्तु तादात्म्यं प्रमेयमभिधेयमित्याद्यनुरोधादिति चेत्, न, तदपि यदि धर्मिस्वरूपं तदा त्वदुक्तरीत्याऽभिन्ने भेदभ्रमानुपपत्तेः, यदि चातिरिक्तम, तदा तत्सम्बन्धगवेषणेऽनवस्थानात् । (शङ्का) अस्तु तर्हि भेदाभेदोभयशून्यं ब्रह्मतत्त्वमिति चेत्, न, तस्य खपुष्पप्रायत्वात्, तद्ग्राहकत्वेनाभिमतस्य ज्ञानस्य सुषुप्तज्ञानतुल्यस्याप्रमाणत्वात् (शङ्का) सुषुप्तज्ञानमप्युत्थानान्तरसत्यविकल्पदर्शनेन प्रमाणमिति चेत्, तर्हि स्वविषयविकल्पाजननात्ततोऽपि त्वदीयं ब्रह्मज्ञानं हीनतरमस्तु, तदभावे तस्याभेदविषयत्वं भेदविषयत्वं वेत्यत्र संशयानिवृत्तेः, वेदान्तवासनामात्रेण तत्प्रामाण्ये पिटकत्रयादिवासनया क्षणिकादिज्ञानमपि प्रमाणं स्यादिति न किञ्चिदेतत् ।
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy