________________
४३४
अष्टसहस्त्रीतात्पर्यविवरणम्
लक्षणमविद्यायास्तदपि प्रमाणासामर्थ्यादेव निश्चेतव्यम इति न प्रमाणातिक्रान्ता
-
अष्टसहस्त्रीतात्पर्यविवरणम्
-
स्वरूपमात्रप्रतिपत्तौ नावध्यपेक्षेति शून्यं वचनम् । अथ धर्मान्तरं, तदा स एव भेदोऽस्तु, कृतं तद्वत्तया घटत्वादेर्भेदरूपतेति प्रक्रियाकल्पनया । (शङ्का) अस्तु स एव धर्मान्तरं भेद इति चेत्, न, दूषितत्वात् । अथ अस्तु स्वरूपादित्रयं भेद इति चेत्, न, तद्व्यवहारस्यैकाकारस्य नानानिमित्तत्वे गोत्वाद्यनुगताकारप्रतीतेरपि कथमेकनिमित्तसिद्धौ प्रमाणत्वं ? व्यभिचारात्, सामान्यविशेषैरेव परसामान्यस्य बुद्धिव्यवहारोपपत्तौ तत्कल्पनानुपपत्तेः ।
किञ्च, भेदे भेदान्तरमस्ति न वा, आद्येऽनवस्था, द्वितीये तदभाव एव स्यात्, तद्धर्मिण्येव तत्प्रवेशात् । (शङ्का) भेदस्वभावत्वात् स्वात्मन्यपि स्वयमेव तद्व्यवहारमयं करोति सत्तेव सद्व्यवहारमिति चेत्, न, अस्य भेदस्य स्वात्मप्रतियोगित्वेन स्वाश्रयत्वेन चाङ्गीकारे स्वस्मादपि स्वस्य भेदप्रतीतिव्यवहारयोः प्रामाण्यप्रसङ्गात् । (शङ्का) न वयं स्वात्मा स्वाधिकरणं स्वावधिरित्यभ्युपगच्छामः, किन्तु धर्मान्तरे तत्प्रतियोगिके तदाधारके वा स्वीकृतौ यौ बुद्धिव्यवहारावृत्पद्येते तावनवस्थाभयाद्धर्मान्तरमन्तरेणैव स्वभावाद्धेदः करोतीति ब्रूम इति चेत्, तमुन्यत्र यादृशी प्रतीतिर्द्धर्मान्तरविषया तादृश्येवात्र विना धर्मान्तरमुत्पद्यत इति भ्रान्ता स्यात्, यस्य च स्वभावस्य वशेनेदृशी सा जायते स दोषः स्यात्, यथा सत्यरजते रजतत्वप्रतीती रजतत्वादुत्पन्ना विनापि धर्मान्तरमन्यत्रोत्पद्यत इति भ्रान्ता भवति, यस्य च सामर्थ्यात्तादृशी जायते स दोष इत्युच्यते । (शङ्का) तत्र रजतत्वं नास्ति अत्र धर्मिरूपोऽपि भेद एव सन्नवलम्बनमिति चेत्, मैवम्, भिन्नप्रतीतिविशिष्टविषया भेदतदाश्रयरूपोभयवस्तुविषयाऽन्यत्र यादृशी सत्याङ्गीकृता ततो मात्रयाऽप्यन्यूनार्थाया इह जायमानाया यदि द्वयं विषयं नाङ्गीकुरुषे तदा गीर्वाणगुरुणापि दुर्निवारं भ्रान्तत्वम्, अथाङ्गीकुरुषे, तदाऽनवस्थाप्रसङ्गः । अथ तदुभयव्यतिरेकेणैवात्र सा सत्या, अन्यत्र तहि ततोऽन्यादृशविषया मिथ्या स्यादित्यलं पल्लवेन । अत्रोच्यते
श्रीहर्ष हर्षस्तव खण्डनेऽस्मिन् भेदस्य चेदस्य कटुर्विपाकः ।
अतद्भिदानां भविता वितानैर्ब्रह्मश्रुतौ किं न कृतान्तकोपः ॥ किञ्चैतेन भेदखण्डनेनाभिमतम्, ? (१) किं भेदज्ञानमेव नास्ति, (२) सदपि वा नित्यम्, (३) अनित्यमपि वा निर्हेतुकम्, (४) सहेतुकमपि वा निर्विषयम्, (५)