________________
४३३
द्वितीयो भागः [ परि०२-का० २७] सकलप्रेक्षावद्व्यवहारविलोपात् । यदपि प्रमाणाघातसहिष्णुत्वमसाधारण
- अष्टसहस्त्रीतात्पर्यविवरणम्
भावरूपत्वेन निर्द्धर्मकतयाऽन्योन्यभेदविरहिण ऐकरूप्यापत्तेः । (शङ्का) अभावे धर्माभावात् स्वरूपमेव भेद इति चेत्, न, तस्य निष्प्रतियोगिकत्वेन भेदत्वस्य वक्तुमशक्यत्वात्, निष्प्रतियोगिकेनापि तेन सप्रतियोगिकव्यवहारजननाभ्युपगमे च प्रतियोगिनियमाभावात् स्वस्मादपि भेदव्यवहारोत्पत्तिप्रसङ्गात् । किञ्च, धर्मान्तरं भेद इति ब्रुवतः कोऽभिसन्धिः ?, किं घटत्वादय एव भेदः, उत भेदो नामान्य एवैकः कश्चिद्धर्म: ? आये घटत्वादीनां सप्रतियोगिकत्वप्रसङ्गः, भेदस्य सप्रतियोगिकत्वात्, न च घटत्वादयस्तथा, पटाद्यनपेक्ष्य तेषां प्रतीतेः । (शङ्का) यदा पटाद्यपेक्षया प्रतीयन्ते तदा भेदव्यवहारं कुर्वन्तीति चेत्, प्रतीतौ कस्य पटाद्यपेक्षेति वाच्यं, किं घटत्वादेरुत तद्धर्मस्य कस्यचित् ? आद्ये पटाद्यपेक्षामन्तरेण कदापि घटत्वप्रतीत्यनुत्पत्तिप्रसङ्गो, न हि यदन्तरेण यदुत्पद्यते तत्तत्कारणकं नाम, वह्नाविवावान्तरजातिभेदेन कारणभेदस्य चरितार्थीकर्तुमशक्यत्वात्, साक्षात्कारत्वादिना सह परापरभावानुपपत्तेः, जात्योः परस्परं सङ्करमिच्छतामपि मते पञ्चम्याऽवधिभावः प्रतिपाद्यमानः केन समन्वियात् ? न तावद् घटत्वेन, तस्यावधिघटितत्वे तथैव पटं प्रतीत्यापत्तेः। (शङ्का) तद्धर्मेणेति चेत्, तद्ययं द्वितीयो विकल्पः, तत्र च स एव सापेक्षप्रतिपत्तिर्भेदो न तु घटत्वादिः, घटत्वादेश्च स भेदः स्यात् तद्धर्मः स्यात्, घटादेस्तु भेदपर्यनुयोगे तदभिधानमसङ्गतम् । कथं च भिन्नैरनुगतभेदव्यवहारः स्यात् ? तथा सति वा किं न तैरेव सदादिव्यवहारोऽपि स्यात् ।।
___नापि द्वितीयोऽनभ्युपगमात्, सप्तपदार्थ्यनन्तर्भावप्रसङ्गात् । ननु घटत्वादय एव भेदो घटत्वादिज्ञानाविशेषेऽपि च प्रतियोगिज्ञानसहकारिवशाद्विचित्रव्यवहारोपपत्तिरिति चेत्, न, व्यवहारसत्यत्वार्थं वास्तवार्थगतविशेषस्यावश्यं स्वीकर्तव्यत्वे तत्रैव पर्यनुयोगानुवृत्तेः, अनन्तभेदपरम्पराभ्युपगमे च तत्क्रमज्ञेयतायां प्रतीत्यपर्यवसानात्, तद्युगपज्ज्ञेयतायामनन्तत्वात् सुसदृशतया कस्यचिदन्यभेदस्यान्यदीयतयाऽपि ग्रहसम्भवादिना सर्वत्र प्रामाण्यानाश्वासप्रसङ्गात् ।
किञ्च घटत्वादेर्भेदत्वेऽवधिभूतपटत्वादिसापेक्षप्रतिपत्तिकतायां घटत्ववत्पटत्वस्यापि भेदरूपस्य भेदावधिप्रतिपत्तिसापेक्षतयाऽवधेश्च घटत्वादिना घटत्वादिप्रतीत्यपेक्षायामन्योन्याश्रयप्रसङ्गः । (शङ्का) भेदरूपत्वे घटत्वादेरवधिप्रतीत्यपेक्षा, न तु स्वरूपमात्रप्रतिपत्तौ, स्वरूपमात्रेण चावधित्वं तत् कृत एवमिति चेत, भेदरूपता यदि तस्य स्वात्मैव, तदा