________________
अष्टसहस्त्रीतात्पर्यविवरणम्
बुद्धेर्मृषात्वसिद्धेः । न च कथञ्चिदविद्यावानेव नरस्तामविद्यां निरूपयितुमक्षमः,
अष्टसहस्त्रीतात्पर्यविवरणम्
४३२
प्रामाणिकं नाम ।
T॥ अभेदवादः ॥
स्यादेतद् भेदखण्डनादेवाभेदपर्यवसानेऽद्वैतसिद्धिर्भविष्यति, तथा च श्रीहर्षः कोऽसौ भेदो नाम ? यद्धीरद्वैतविरोधिन्युच्यते, स हि स्वरूपं वा स्यादितरेतराभावो वा धर्मान्तरं वा । नाद्यो भिन्नेऽभिन्नभ्रमानुत्पत्तिप्रसङ्गात्, भ्रान्त्यापि धर्मिस्वरूपावगाहनात् । न च अनारब्धावयविषु तरुष्ववयविविभ्रमवद् उपपत्तिः, तदुदाहरणानङ्गीकारात्, अतस्मिन् स एवायमिति प्रत्यभिज्ञाभासार्थस्यैवात्र दृष्टान्तत्वेनेष्टत्वात्, अत्रापि धर्मारोपोपगमे तादात्म्याभावस्य संसर्गाभावप्रवेशापत्तेः, स्वरूपभेदग्रहेऽभेदधर्मस्याप्यशक्यारोपत्वाच्च । नापि द्वितीयः, प्रतीतावन्योन्याश्रयप्रसङ्गात् । (शङ्का) प्रतियोगिरूपत्वेनाप्रतीतावधिकरणप्रतीतिरधिकरणस्वभावत्वेनास्मृतौ प्रतियोगिस्मृतिश्च तद्ग्रहणकारणमतो नान्योन्याश्रय इति चेत्, न, वस्तुतोऽन्योन्याभावस्य कुम्भपटोभयप्रतियोगिकाश्रयकत्वेन पटे निषिद्धयमाने कुम्भस्यापि निषेधापत्तेः । (शङ्का) प्रत्येकप्रतियोगिताश्रयतयोर्भिन्नत्वादेकस्य प्रतियोगिताश्रयतान्यतरनिरूपणकालेऽन्यस्य तदपेक्षाभावान्न दोष इति चेत्, न, अन्योन्याभावाधिकरणप्रतियोगितया प्रतीतेरन्योन्याभावग्रहात् पूर्वमयोगाद्विशिष्टप्रतीतौ विशेषणप्रतीतेर्हेतुत्वात् यस्य कस्यचित् प्रतियोगितयाऽधिकरणतया च प्रतीतेरहेतुत्वात् । यत्र भिन्नेऽभेदभ्रमस्तद्देशान्यदेशे भ्रमविषयस्य स्वाभावप्रतियोगित्वेन तद्देशे च धर्मिणः सत्त्वाधारतया प्रतीतावप्यन्योन्याभावप्रतीत्यनुत्पत्तेः । (शङ्का) प्रतियोगिबुद्धौ स्मृतित्वस्य प्रयोजकत्वेऽपि योऽसौ तत्र नासीत् सोऽयमिति स्मर्यमाणाभावप्रतियोगित्वेऽपि वस्तुगत्या भिन्नस्याभिन्नतया भ्रमेणोल्लिख्यमानस्यान्योन्याभावप्रतीत्यनुदयाद् दोषाभावोऽपि हेतु:, स भ्रमोदाहरणे नास्तीति चेत्, न, पूर्वदृष्टस्मृतिमता ततो वस्तुगत्याऽन्यस्यैवानन्तरदृष्टस्य पूर्वदृष्टाद्भिन्नाभिन्नतयाऽनिरूपितस्यापि सम्भवेन तत्रेतरेतराभावबुद्धयापत्तेः । (शङ्का) बुध्यत एव तत्र स इति चेत्, न पश्चात्तत्र संशयस्य दर्शनात् । (शङ्का) विशेषधीरपि तत्र हेतुरिति चेत्, न, विशेषत्वस्यान्योन्याभावनिरूपणं विना दुर्निरूपत्वात् । एतेन वस्तुगत्या प्रतियोगिनः स्वरूपेण स्मृतिर्वस्तुगत्या चाधिकरणस्य स्वरूपेण प्रतीतिर्हेतुरित्यपि निराकृतम्, भिन्नस्याभिन्नतया वृक्षादेः प्रतीयमानस्यान्योन्याभाववत्तया ग्रहणप्रसङ्गात् ।
नापि तृतीयः, अभावस्य निर्द्धर्मकतापक्षे तस्य विश्वाभिन्नत्वप्रसक्तौ विश्वस्या